संस्कृत-शब्दकोशः

रुक्मिणी रुक्मिदर्प

रुक्मिणीव्रत

शब्दकल्पद्रुमः

रुक्मिणीव्रतं || क्ली (रुक्मिण्या व्रतम् ।)
व्रत- विशेषः । यथा, — सूत उवाच । “जामदग्न्यः समाकर्ण्य रमां तां पुत्त्रगर्द्धिनीम् कल्केरभिमतं बुद्ध्वा कारयद्रुक्मिणीव्रतम् ॥ व्रतेन तेन च रमा पुत्त्राढ्या सुभगा सती । सर्व्वभोगेन संयुक्ता बभूव स्थिरयौवना ॥ शौनक उवाच । विधानं ब्रूहि मे सूत व्रतस्यास्य च यत् फलम् । पुरा केन कृतं धर्म्म्यं रुक्मिणीव्रतमुत्तमम् ॥ सूत उवाच । शृणु ब्रह्मन् ! राजपुत्त्री शर्म्मिष्ठा वार्षपर्व्वणी । अवगाह्य सरोनीरं सोमं हरमपश्यत ॥ सा सखीभिः परिवृता देवयान्या च संगता । शम्भुभीत्या समुत्थाय पर्य्यधुर्व्वसनं द्रुतम् ॥ तत्र शुक्रस्य कन्या या वस्त्रव्यत्यासमात्मनः । संलक्ष्य कुपिता प्राह वसनं त्यज भिक्षुकि ! ॥ इति दानवकन्या सा दासीभिः परिवारिता । तां तस्या वाससा वद्ध्वा कूपे क्षिप्त्वा गता गृहम् ॥ तां कूपमग्नां रुदतीं जलाथी नहुषात्मजः । करे स्पृश्य समुद्धृत्य प्राह का त्वं वरानने ॥ सा शुक्रपुत्त्री वसनं परिधाय ह्निया भिया । शर्म्मिष्ठया कृतं सर्व्वं प्राह राजानमीक्षती ॥ ययातिस्तदभिप्रायं ज्ञात्वानुव्रज्य शोभनाम् । आश्वास्य तां ययौ गेहं तस्याः परिणयादृतः ॥ सा गत्वा भवनं शुक्रं प्राह शर्म्मिष्ठया कृतम् । तच्छ्रुत्वा कुपितं विप्रं वृषपर्व्वाह सान्त्वयन् ॥ दण्ड्यं मां दण्डय विभो रोषो यद्यस्ति ते मयि । शर्म्मिष्ठां वाप्यपकृतां कुरु यन्मनसेप्सितम् ॥ राजानं प्रणतं पादे पितुर्दृष्ट्वा रुषाब्रवीत् । देवयानी त्वियं कन्या मम दासी भवत्विति ॥ समानीय तदा राजा दास्ये तां विनियुज्य सः । ययौ निजगृहं ज्ञानी दैवं परमकं स्मरन् ॥ ततः शुक्रस्तमानीय ययातिं प्रतिलोमकम् । तस्मै ददौ तां विधिवत् देवयानीं तया सह ॥ दत्त्वा प्राह नृपं विप्रोऽप्येनां राजसुतां यदि । शयने नयसे सद्यो जरा त्वामुपभोक्ष्यति ॥ शुक्रस्यैतद्वचः श्रुत्वा राजा तां वरवर्णिनीम् । अदृश्यां स्थापयामास देवयान्यनुगां भिया ॥ सा शर्म्मिष्ठा राजपुत्त्री दुःखशोकभयाकुला । नित्यं दासीशताकीर्णा देवयानीन्तु सेवते ॥ एकदा सा वनगता रुदती जाह्नवीतटे । विश्वामित्रं मुनिं सा तं ददृशे स्त्रीभिरावृतम् ॥ व्रजिनं पुण्यगन्धाभिः सुरूपाभिः सुवासितम् । कारयन्तं व्रतं भाल्यधूपदीपोपहारकैः ॥ निर्म्मायाष्टदलं पद्मं वेदिकायां सुचिह्नितम् । रम्भापोतैश्चतुर्भिस्तु चतुष्कोणं विराजितम् ॥ वाससा निर्म्मितगृहे स्वर्णपट्टैर्विचित्रिते । निर्म्मितश्रीवासुदेवं नानारत्नविघट्टितम् ॥ पौरुषेण च सूक्तेन नानागन्धोदकैः शुभैः । पञ्चामृतैः पञ्चगव्यैर्यथामन्त्रैर्द्विजेरितैः ॥ स्नापयित्वा भद्रपीठे कर्णिकायां प्रपूजयन् । पञ्चभिर्दशभिर्व्वापि षोडशैरुपचारकैः ॥ पाद्यमध्वश्रमहरं शीतलं सुमनोहरम् । परमानन्दजनकं गृहाण परमेश्वर ॥ दूर्व्वाचन्दनगन्धाढ्यमर्घ्ययुक्तं प्रयत्नतः । गृहाण रुक्मिणीकान्त प्रपन्नस्य मम प्रभो ॥ नानातीर्थोद्भवं वारि सुगन्धि सुमनोहरम् । गृहाणाचमनीयं त्वं श्रीनिवास श्रिया सह ॥ नानाकुसुमगन्धाढ्यं सूत्रग्रथितमुत्तमम् । वक्षःशोभाकरं चारु माल्य नय सुरेश्वर ॥ तन्तुसन्तानसन्धानरचितं वन्दनं हरे । गृहाणावरणं शुद्धं निरावरण सप्रिय ॥ यज्ञसूत्रमिदं देव प्रजापतिविनिर्म्मितम् । गृहाण वामुदेव त्वं रुक्मिण्या रमया सह ॥ नानारत्नसमायुक्तं स्वर्णमुक्तादिषट्टितम् । प्रियया सह देवेश गृहाणाभरणं मम ॥ दधिक्षीरगुडाम्नादिपूपलड्डुकखण्डकान् । गृहाण रुक्मिणीनाथ सनाथं कुरु मां प्रभो ॥ कर्पूरागुरुगन्धाढ्यं परमानन्ददायकम् । धूपं गृहाण वरद वैदर्भ्या प्रियया सह ॥ भक्तानां गेहसक्तानां संसारध्वान्तनाशनम् । दीपमालोकय विभो जगदालोकनादर ॥ श्यामसुन्दर पद्माक्ष पीताम्बर चतुर्भुज । प्रपन्नं पाहि देवेश रुक्मिण्या सहिताच्युत ॥ इति तासां व्रतं दृष्ट्वा मुनिं नत्वा सुदुःखिता । शर्म्मिष्ठा मिष्टवचना कृताञ्जलिरुवाच ताः ॥ शर्म्मिष्ठोवाच । राजपुत्त्रीं दुर्भगां मां स्वामिना परिवर्ज्जिताम् । त्रातुमर्हथ हे देव्यो व्रतेनानेन कर्म्मणा ॥ श्रुत्वा तु ता चस्तस्याः कारुण्याच्च कियत् कियत् । पूजोपकरणं दत्त्वा कारयामासुरादरात् ॥ व्रतं कृत्वा तु शर्म्मिष्ठा लब्ध्वा स्वामिनमीश्वरम् । सूत्वा पुत्त्रान् सुसन्तुष्टा समभूत् स्थिरयौवना ॥ सीता चाशोकवनिकामध्ये सरमया सह । व्रतं कृत्वा पतिं लेभे रामं राक्षसनाशनम् ॥ बृहदश्वप्रसादेन कृत्वेदं द्रौपदी व्रतम् । पतियुक्ता दुःखमुक्ता बभूव स्थिरयौवना ॥ तथा रमा सिते पक्षे वैशाखे द्वादशीदिने । जामदग्न्याद्व्रतं चक्रे पूर्णं वर्षचतुष्टयम् ॥ पट्टसूत्रं करे बद्ध्वा भोजयित्वा द्बिजान् बहून् । भुक्त्वा हविष्यं क्षीराक्तं सुमिष्टं स्वामिना सह ॥ बुभुजे पृथिवीं सर्व्वामपूर्व्वां स्वजनैर्वृता । सा पुत्त्रौ सुषुवे साध्वी मेघमालवलाहकौ ॥ देवानामुपकर्त्तारौ यज्ञदानतपोव्रतौ । महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ ॥ व्रतवरमिति कृत्वा सर्व्वसम्पत्समृद्धा भवति विदिततत्त्वा पूजिता पूर्णकामा । हरिचरणसरोजद्बन्द्वभक्तैकताना व्रजति गतिमपूर्ब्बां ब्रह्मविज्ञैरगम्याम् ॥” इति कल्किपुराणे रुक्मिणीव्रतम् ३१ अध्यायः ॥



Correction: