संस्कृत-शब्दकोशः

रुच रुचा

रुचक

वाचस्पत्यम्

रुचक ||‍ न० रुच—क्वुन् । १ सर्जिकाक्षारे, माङ्गल्ये २ द्रव्ये, ३ अश्वभूषणे, ४ माल्ये ५ सौवचले, ६ उत्कटे त्रि० मेदि० ७ आस्वाद्यरसे, शब्दच० ८ रोचनायाम्, ९ विडङ्गे न० हेमच० १० लवणे न० हारा० । ११ वीजपूरे, १२ दन्ते, १३ निष्के पु० १४ कपोते च पुंस्त्री० मेदि० स्त्रियां ङीष् । १५ स्वर्णपात्रभेदे च ।


शब्दकल्पद्रुमः

रुचकं || क्ली (रोचतेऽनेनेति । रुच् + “बहुलमन्य- त्रापि ।” उणा० २ । ३७ । इति क्वुन् ।)
सर्जि- काक्षारम् । अश्वाभरणम् । माल्यम् । सौव- र्च्चलम् । (यथा, —
“सौवर्च्चलं स्याद्रुचकमन्यपाकञ्च तन्मतम् ॥” तथास्य गुणाः । “रुचकं रोचनम्भेदि दीपनम्पाचनम्परम् । सुस्नेहं वातनुन्नातिपित्तलं विशदं लघु । उद्गारशुद्धिदं सूक्ष्मं विवन्धानाहशूलजित् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमभागे ॥)
माङ्गल्यद्रव्यम् । (यथा, भागवते । ३ । २३ । ३१ । “हारेण च महार्हेण रुचकेन च भूषितम् ॥” “रुचकेन मङ्गलद्रव्येण ।” इति श्रीधरः ॥)
उत्कटः । इति मेदिनी । के, १४६ ॥ स्वाद्यरसः । इति शब्दरत्नावली ॥ रोचना । विडङ्गम् । इति हेमचन्द्रः ॥ लवणम् । इति हारावली ॥ (दक्षिण- दिक् । यथा, बृहत्संहितायाम् । ५३ । ३५ । “प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ शेषौ । रुचके द्वारं न शुभदमुत्तरतोऽन्यानि शस्तानि ॥” “रुचकं मातुलुङ्गकम् ।” इत्युज्ज्वलदत्तः । २ । ३७ ॥)


शब्दकल्पद्रुमः

रुचकः || पुं, (रोचते इति । रुच् + क्वुन् ।)
बीज- पूरः । निष्कः । दन्तः । कपोतः । इति मेदिनी ॥ (यथा, बृहथंहितायाम् । ६९ । २ । “जीवेन भवति हंसः सौरेण शशः कुजेन रुचकश्च ॥” पर्व्वतविशेषः । यथा, विष्णुपुराणे । २ । २ । २६ । “त्रिकूटः शिशिरश्चैव पतङ्गो रुचकस्तथा ॥” स्तम्भः । यथा, बृहत्संहितायात् । ५३ । २८ । “समचतुरस्रो रुचको वज्रोऽष्टाश्रिर्द्विवज्रको द्विगुणः ॥”)



Correction: