संस्कृत-शब्दकोशः

रुचि रुचिफल

रुचित

शब्दकल्पद्रुमः

रुचितं || त्रि (रोचते इति । रुच् + “रुचिवचि- कुचिकुटिभ्यः कितच् ।” उणा० ४ । २८५ । इति कितच् ।)
मिष्टवस्तु । इत्युणादिकोषः ॥ (रुच् + क्तः । अभिलषितः । यथा, महा- भारते । ५ । १०० । १६ । “मातले कश्चिदत्रापि रुचितस्ते वरो भवेत् ॥” क्ली, रुच् + भावे क्तः । इच्छा । अभिताषः । यथा, महाभारते । ३ । २९६ । ७९ । “वसावेह क्षपामेकां रुचितं यदि तेऽनघ ॥”)



Correction: