वाचस्पत्यम्
रुचि(ची) || स्त्री रुच—कि वा ङीप् । १ अनुरागे २ आसङ्गे ३ स्पृहायाम् ४ अभिलाषे ५ किरणे अमर । ६ शोभायां मेदि० ७ बुभुक्षायां हेमच० । ८ गोरोचनायां च राजनि० । ९ प्रजापतिभेदे पु० मार्क० पु० । १० आलिङ्गतभेदे कामशास्त्रम् ।
शब्दकल्पद्रुमः
रुचिः || पुं, (रोचते शोभते इति । रुच् + इन् । सच कित् ।)
प्रजापतिविशेषः । स च रौच्य- मनुपिता । यथा, — मार्कण्डेय उवाच । “रुचिः प्रजापतिः पूर्व्वं निर्म्ममो निरहङ्कृतिः । यत्रास्तमितशायी च चचार पृथिवीमिमाम् ॥ अनग्निमनिकेतन्तमेकाहावसथाश्रयम् । विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥ पितर ऊचुः । वत्स कस्मात् त्वया पुण्यो न कृतो दारसंग्रहः । स्वर्गापवर्गहेतुत्वाद्बन्धस्तेनानिशं विना ॥ गृही समस्तदेवानां पितॄणाञ्च तथार्हणाम् । ऋषीणामतिथीनाञ्च कुर्ब्बन् लोकानुपाश्नुते ॥ स्वाहोच्चारणतो देवान् स्वधोच्चारणतः पितॄन् । विभजन्नन्नदानेन भूताद्यानतिथीनपि ॥ स त्वं दैवादृणाद्बन्धं बन्धमस्मदृणादपि । आवाप्नोषि मनुष्यर्षिभूतेभ्यश्च दिने दिने ॥ अनुत्पाद्य सुतान् देवानसन्तर्प्य पितॄंस्तथा । भूतादींश्च कथं मौढ्यात् सुगतिं गन्तुमिच्छसि ॥ रुचिरुवाच । परिग्रहोऽतिदुःखाय पापायाधोगतेस्तथा । भवत्यतो मया पूर्ब्बं न कृतो दारसंग्रहः ॥ प्रक्षाल्यतेऽनुदिवसं यदात्मा निष्परिग्रहैः । ममत्वपङ्कदिग्धोऽपि चिन्ताम्भोभिर्व्वरं हि तत् ॥” इत्यादि ॥ पितर ऊचुः । “युक्तं प्रक्षालनं कर्त्तुमात्मनो नियतेन्द्रियैः । किन्तु लेपाय मार्गोऽयं यत्र त्वं पुत्त्र वर्त्तसे ॥” इत्यादि ॥ * ॥
मार्कण्डेय उवाच । “स तेन पितृवाक्येन भृशमुद्बिग्नमानसः । कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् ॥ कन्यामलभमानोऽसौ पितृवाक्याग्निदीपितः । चिन्तामवाप महतीमतीवोद्विग्नमानसः ॥ किं करोमि क्व गच्छामि कथं मे दारसंग्रहः । क्षिप्रं भवेत् पितॄणां यो ममाभ्युदयकारकः ॥ इति चिन्तयतस्तस्य मतिर्जाता महात्मनः । तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम् ॥ ततो वर्षशतं दिव्यं तपस्तेपे स वैधसम् । दिदृक्षुः सुचिरं कालं रुचिर्नियममास्थितः ॥ ततः स्वन्दर्शयामास ब्रह्मा लोकपितामहः । उवाच च प्रसन्नोऽस्मीत्युच्यतामभिवाञ्छितम् ॥ ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतः पतिम् । पितॄणां वचनात्तेन यत् कर्त्तुमभिवाञ्छितम् ॥ ब्रह्मा चाह रुचिं विप्रं श्रुत्वा तस्याभिवाञ्छि- तम् । प्रजापतिस्त्वं भविता सष्टव्या भवता प्रजाः ॥ सृष्ट्वा प्रजाः सुतान् विप्र समुत्पाद्य क्रियास्तथा । कृत्वा हृताधिकारस्त्वं ततः सिद्धिमवाप्स्यसि ॥ स त्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम् । कामञ्चेममभिध्याय क्रियतां पितृपूजनम् ॥ त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम् । पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः ॥ मार्कण्डेय उवाच । इत्यृषिर्व्वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः । नद्या विविक्ते पुलिने चकार पितृतर्पणम् ॥ तुष्टाव च पितॄन् विप्रः स्तवैरेभिरथादृतः । एकाग्रः प्रयतो भूत्वा भक्तिनम्रात्मको रुचिः ॥” रुचिकृतपितृस्तोत्रं यथा, — रुचिरुवाच । “नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवतम् । देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥ नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः । श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः । नमस्येऽहं पितॄन् स्वर्गे सिद्धाः सन्तर्पयन्ति यान् । श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥ नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि । तन्मयत्वेन वाञ्छद्भिरृद्धिमात्यन्तिकीं पराम् ॥ नमस्येऽहं पितॄन् मर्त्यैरर्च्यन्ते भुवि ये सदा । श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥ नमस्येऽहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा । वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥ नमस्येऽहं पितॄन् विप्रैरर्च्यन्तऽरण्यवासिभिः । वन्यैः श्राद्धैयताहारैस्तपोनिर्द्धूतकल्मषैः ॥ नमस्येऽहं पितॄन् विप्रैर्नैष्ठिकव्रतधारिभिः । ये संयतात्सभिर्नित्यं सन्तर्प्यन्ते समाधिभिः । नमस्येऽहं पितॄन् श्राद्धेराजन्यास्तर्पयन्ति यान् । कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥ नमस्येऽहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा । स्वकर्म्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥ नमस्येऽहं पितॄन् श्राद्धे ये शूद्रैरपि भक्तितः । सन्तर्प्यन्ते जगत्यस्मिन् नाम्ना ख्याताः सुका- लिनः ॥ नमस्येऽहं पितॄन् श्राद्धे पाताले ये महासुरैः । सन्तर्प्यन्ते स्वधाहारास्त्यक्तदम्भमदैः सदा ॥ नमस्येऽहं पितॄन् श्राद्धैरर्च्यन्ते ये रसातले । भोगैरशेषैर्विवि धैर्नागैः कामानभीप्सुभिः ॥ नमस्येऽहं पितॄन् श्राद्धे सर्पैः सन्तर्पितान् सदा तत्रैव विविधैर्म्मन्त्रैर्भोगसम्पत्समन्वितैः ॥ पितॄन्नमस्ये निवसन्ति साक्षाद् ये देवलोकेऽथ महीतले वा । तथान्तरीक्षे च सुरादिपूज्या- स्ते संप्रतीच्छन्तु मयोपनीतम् ॥ पितॄन्नमस्ये परमाणुभूता ये वै विमाने निवसन्त्यमूर्त्ताः । यजन्ति यानस्तमला मनोभि- र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥ पितॄन्नमस्ये दिवि ये च मूर्त्ताः स्वधामुजः काभ्यफलाभिसन्धौ । प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु ॥ तृप्यन्तु तेऽस्मिन् पितरः समस्ता इच्छावतां ये प्रदिशन्ति कामान् । सुरत्वमिन्द्रत्वमतोऽधिकं वा वस्वात्मजान् क्ष्मामवलां गृहाणि ॥ सूर्य्यस्य ये रश्मिषु चन्द्रविम्बे शुक्ले विमाने च सदा वसन्ति । तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयै- र्गन्धादिना पुष्टिमतो व्रजन्तु ॥ येषां हुतेऽग्नौ हविषा च तृप्ति- र्ये भुञ्जते विप्र शरीरसंस्थाः । ये पिण्डदानेन मुदं प्रयान्ति तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैः ॥ ये खड्गमांसेन सुरैरभीष्टैः कृष्णैस्तिलैर्दैत्यमहोरगैश्च । कालेन शाकेब महर्षिवर्य्यैः संप्रीणितास्ते मुदमत्र यान्तु ॥ कव्यान्यशेषाणि च यान्यभीष्टा- न्यतीव येषाममरार्च्चितानाम् । तेषान्तु सान्निध्यमिहास्तु पुष्प- गन्धादिभोज्येषु मयाहृतेषु ॥ दिने दिने ये प्रतिगृह्णतेऽर्च्चां मासान्तपूज्या भुवि येऽष्टकासु । ये वत्सरान्तेऽभ्युदये च पूज्याः प्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥ पूज्या द्बिजानां कुमुदेन्दुभासो ये क्षत्त्रियाणाञ्च नवार्कवर्णाः । तथा विशां ये कनकावदाता नीलीनिभाः शूद्रजनस्य ये च ॥ तेऽस्मिन् समस्ता मम पुष्पगन्ध- धूपान्नतोयादिनिवेदनेन । तथाग्निहोमेन च यान्तु तृप्तिं सदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥ ये देवपूर्व्वाण्यतितृप्तिहेतो- रश्नन्ति कव्यानि शुभाहृतानि । तृप्ताश्च ये भूतिसृजो भवन्ति तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥ रक्षांसि भूतान्यसुरांस्तथोग्रान् विनाशयन्तस्त्वशिवं प्रजानाम् । आद्याः सुराणाममरेशपूज्या- स्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥ अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा । व्रजन्तु तृप्तिं श्राद्धेऽस्मिन् पितरस्तर्पिता मया ॥ अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मे दिशम् । तथा बहिषदः पान्तु याम्यां ये पितरःस्थिताः ॥ प्रतीचीमाज्यपास्तद्बदुदीचीमपि सोमपाः । ऊर्द्ध्वतस्त्वर्य्यमा रक्षेत् कव्यवालोऽनलोऽप्यधः ॥ रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः । सर्व्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ॥ विश्वो विश्वभुगाराध्यो धन्यो धर्म्मः सनातनः । भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥ कल्याणः कल्यदः कर्त्ता कल्यः कल्यतराश्रयः । कल्यताहेतुरनघः षडित्येते गणाः स्मृताः ॥ वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा । विश्वपाता तथा धाता सप्त चैते गणाः स्मृताः ॥ महान्महात्मा महितो महिमावान्महाबलः । गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥ सुखदो धनदश्चान्यो धर्म्मदोऽन्यो विभूतिदः । पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ॥ एकत्रिंशत् पितृगणा यैर्व्याप्तमखिलं जगत् । ते मेऽत्र तृप्तास्तुष्यन्तु यच्छन्तु च समीहितम् ॥” इति मार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृस्तवः ॥ मार्कण्डेय उवाच । “एवन्तु स्तुवतस्तस्य तेजसो राशिरुच्छिखः । प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥ तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् । जानुभ्यामवनिं गत्वा रुचिः स्तोत्रमिदं जगौ ॥ अमूर्त्तानाञ्च मूर्त्तानां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ इन्द्रादीनाञ्च नेतारो दक्षमारीचयोस्तथा । सप्तर्षीणान्तथान्येषां तान् नमस्यामि काम- दान् ॥ मन्वादीनाच्च नेतारः सूर्य्याचन्द्रमसोस्तथा । तान्नमस्याम्यहं सर्व्वान् पितॄनप्स्वर्णबेषु च ॥ नक्षत्राणां ग्रहाणाञ्च वाय्वग्निनभसां तथा । द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ प्रजापतेः कश्यपाय सोमाय वरुणाय च । योगेश्वरेभ्यश्च तथा नमस्यामि कृताञ्जलिः ॥ नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु । स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥ सोमाधाराः पितृगणा योगमूर्त्तिधारा हि ते । नमस्यामि ततः सोमं पितरं जगतामहम् ॥ अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् । अग्नीषोममयं विश्वं यत एतदशेषतः ॥ ये तु तेजसि ये वायौ सोमसूर्य्याग्निमूर्त्तयः । जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥ तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः । नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ॥ श्रीमार्कण्डेय उवाच । एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः । निश्चक्रमुस्ते पितरो भासयन्तो दिशो दश ॥ निवेदितन्तु यत्तेन पुष्पगन्धानुलेपनम् । तद्भूषितानथ स तान् ददृशे पुरतः स्थितान् ॥ प्रणिषत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः । नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥ ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् । वरं वृणीष्वेति स तानुवाचानतकन्धरः ॥ साम्प्रतं सर्गकर्त्तृत्वमादिष्टं ब्रह्मणा मम । सोऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजाव- तीम् ॥ पितर ऊचुः । अद्यैव सद्यः पत्नी ते भविष्यति मनोरमा । तस्याञ्च पुत्त्रो भविता भवतो मुनिसत्तम ! ॥ मन्वन्तराधिपो धीमान् त्वन्नाम्नैवोपलक्षितः । रुचे रौच्य इति ख्यातिं प्रयास्यति जगत्त्रये ॥ तस्यापि बहवः पुत्त्रा महाबलप्रराक्रमाः । भविष्यन्ति महात्मानः पृथिवीपरिपालकाः ॥ त्वञ्च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः । क्षीणाधिकारो धर्म्मज्ञस्ततः सिद्धिमवाप्स्यसि ॥ स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः । तस्य तुष्टा वयं भोगान् दास्यामो ज्ञानमुत्तमम् ॥ शरीरारोग्यमैश्वर्य्यं पुत्त्रपौत्त्रादिसन्ततिम् । प्रदास्यामो न सन्देहो यच्चान्यदभिवाञ्छितम् ॥ तस्मात् पुण्यफलं लोके वाञ्छद्भिः सततं नरैः । पितॄणाञ्चाक्षयां तृप्तिं स्तव्याः स्तोत्रेण मानवैः ॥ श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् । पठिष्यन्ति द्बिजाग्र्याणां भुञ्जतां पुरतः स्थिताः ॥ स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते । अस्माभिरक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ॥ यद्यप्यश्रोत्रियं श्रार्द्धं यद्यप्युपहतं भवेत् । अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ॥ अश्राद्धार्हैरुपहतैरुपहारैस्तथा कृतम् । अकालेऽप्यथवा देशे विधिहीनमथापि वा ॥ अश्रद्धया वा पुरुषैर्द्दम्भमाश्रित्य वा कृतम् । अस्माकं प्रीतये श्राद्धं तथाप्य तदुदीरणात् ॥ यत्रैतत् पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् । अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी ॥ हेमन्ते द्बादशाब्दानि तृप्तिमेतत् प्रयच्छति । शिशिरे द्बिगुणाब्दानि तृप्तिं स्तीत्रमिदं श्रुतम् ॥ वसन्ते षोडशसमास्तृप्तये श्राद्धकर्म्मणि । ग्रीष्मे च षोडशैवैतत् पठितं तृप्तिकारकम् ॥ विकाले च कृते श्राद्धे स्तोत्रेणानेन साधिते । वर्षासु तृप्तिरस्माकमक्षया जायते रुचे ॥ शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति । अस्माकमेतत् पुरुषैस्तृप्तिं पञ्चदशाब्दिकीम् ॥ यस्मिन् गृहेऽपि लिखितमेतत्तिष्ठति नित्यदा । सन्निधातं कृते श्राद्धे तत्रास्माकं भविष्यति ॥ तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः । श्रावणीयं महाभाग अस्माकं तुष्टिकारकम् ॥” इति मार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृस्तवे ॥ * मार्कण्डेय उवाच । “ततस्तस्मान्नदीमध्यात् समुत्तस्थौ मनोरमा । प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥ सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ॥ प्रश्रयावनता सुभ्रूः प्रम्लोचा वै वराप्सराः ॥ अतीवरूपिणी कन्या मत्सुता तपतांवर । जाता वरुणपुत्त्रेण पुष्करेण महात्मना ॥ तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् । मनुर्म्महामतिस्तस्यां समुत्पस्यति ते सुतः ॥ मार्कण्डेय उवाच । तथति तेन चाप्युक्ता तस्मात्तोयाद्वपुष्मतीम् । उज्जहार ततः कभ्यां मालिनीं नाम नामतः ॥ नद्याश्च पुलिने तस्मिन् स मुनिर्मुनिसत्तम ! । जग्राह पाणिं विधिवत् समानाय्य महामुनीन् ॥ तस्यां तस्य सुतो जज्ञे महावीर्य्यो महामतिः । रौच्योऽभवत् पितुर्नाम्ना ख्यातोऽत्र वसुधातले ॥ तस्य मन्वन्तरे देवास्तथा सप्तर्षयश्च ये । तनयाश्च नृपाश्चैव ते सम्यक् कथितास्तव ॥ धर्म्मवृद्धिस्तथारोग्यं धनधान्यसुतोद्भवः । नृणां भवत्यसन्दिग्धमस्मिन् मन्वन्तरे श्रुते ॥ पितृस्तवं तथा श्रुत्वा पितॄणाञ्च तथा गणान् । सर्व्वान् कामानवाप्नोति तत्प्रसादान्नरो मुने ॥” इति मार्कण्डेयपुराणे रौच्येमन्वन्तरं समाप्तम् ॥ गारुडे ८९ । ९० अध्यायेऽप्येवमस्ति ॥
शब्दकल्पद्रुमः
रुचिः || स्त्री (रुच्यते इति । रुच् + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । सच कित् ।)
अभिष्वङ्गः । अनुरागः । आशक्तिर्वा । स्पृहा । (यथा, किराते । १० । ६२ । “रुचिकरमपि नार्थवद्बभूव स्तिमितसमाधिशुचौ पृथातनूजे ॥” “अम्लो रुचिकरो हृद्यः प्रीणनो वह्निदीपनः ॥” इति वैद्यकराजवल्लभे द्रव्यगुणव्याख्यायाम् ॥)
अभिलाषः । गभस्तिः । किरणः । इत्यमर- भरतौ ॥ शोभा । इति मेदिनी ॥ (यथा, रघुः । ५ । ६७ । “लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽयि त्वदाननरुचिं विजहाति चन्द्रः ॥”)
बुभुक्षा । इति हेमचन्द्रः ॥ गोरोचना । इति राजनिर्घण्टः ॥ आलिङ्गनविशेषः । तल्लक्षणं यथा । नायिकाया नायकस्य संमुखे जान्वो- रुपर्य्युपविश्य वक्षसि वक्षो दत्त्वा यदवस्थानम् । इति कामशास्त्रम् ॥