संस्कृत-शब्दकोशः

रुचिफल रुचिरा

रुचिर

वाचस्पत्यम्

रुचिर ||‍ त्रि० रुचिं राति ददाति रा—क । १ मनोहरे सुन्दरे १ मधुरे च अमरः । २ मूलके ३ कुङ्कुमे ४ लवङ्गे च न० ५ गोरोचनायां स्त्री राजनि० ।


शब्दकल्पद्रुमः

रुचिरं || क्ली (रोचते इति । रुच् + “इषिमदि- मुदीति ।” उणा० १ । ५२ । इति किरच् ।)
मूलकम् । कुङ्कुमम् । लवङ्गम् । इति राज- निर्घण्टः ॥ (पुं, सेनजित्पुत्त्रः । यथा, हरि- वंशे । २० । २१ । “पुत्त्राः सेबजितश्चासंश्चत्वारो लोकसत्तमाः । रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव च ॥”)


शब्दकल्पद्रुमः

रुचिरं || त्रि (रुच् + किरच् ।)
सुन्दरम् । इत्य- मरः ॥ (यथा, आर्य्यासप्तशत्याम् । ११७ । “उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचि- राङ्गि । अचला अपि न महान्तः के चञ्चलभाव- मानीताः ॥”)
मिष्टम् । इत्युणादिकोषः ॥



Correction: