संस्कृत-शब्दकोशः

रुचिराश्व रुची

रुचिष्य

शब्दकल्पद्रुमः

रुचिष्यं || त्रि (रुच्यते इति । रुच् + “रुचि- भुजिभ्यां किष्यन् ।” उणा० ४ । १७८ । इति किष्यन् ।)
मिष्टवस्तु । इत्युणादिकोषः ॥ (यथा, सुश्रुते । १ । ४६ । पुष्पवर्गे । “सिण्डाकी वातला सान्द्रा रुचिष्यानल- दीपनी ॥”)
अभिप्रेतम् । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, हरिवंशे । २५४ । ६० । “न पृथ्वीं कामये कृत्स्नां सन्तुष्टोऽस्मि पदै- स्त्रिभिः ॥ एष एव रुचिष्यो मे वरो दानवसत्तम ! ॥”)



Correction: