वाचस्पत्यम्
रुज्(जा) || स्त्री रुज—सम्प० क्विप् वा टाप् रुज—अङ् वा । १ रोगे २ भङ्गे मेदि० रुज—क । ३ मेष्यां हेमच० । ४ कुष्ठे च (कुड) राजनि० । एतद्योगे कर्मषष्ठ्या न समासः ।
शब्दकल्पद्रुमः
रुक् || [ज्] स्त्री, (रुज् + क्विप् ।)
रोगः । इत्य- मरः । २ । ६ । ५१ ॥ (यथा, भागवते । ६ । १ । ८ । “दोषस्य दृष्ट्वा गुरु लाघवं यथा भिषक् चिकित्सेत रुजां निदानवित् ॥” रुजति पीडयतीति । पीडादायके, त्रि । यथा, महाभारते । ५ । ८४ । १ । “प्रयान्तं देवकीपुत्त्रं परवीररुजो दश । महारथा महाबाहुमन्वयुः शस्त्रपाणयः ॥” अथवा परस्य वीराणां रुक् यैरिति ॥)