संस्कृत-शब्दकोशः

रुज् रुठ

रुट

वाचस्पत्यम्

रुट ||‍ चौर्व्ये भ्वा० पर० सक० सेट् इदित् । रुण्टति अरुण्टीत् ।


वाचस्पत्यम्

रुट ||‍ दीप्तौ अक० प्रतिघाते सक० च भ्वा० आ० सेट् । रोटत ऌदित् लुङि उभ० अरुटत् अरोटिष्ट रुरुटे ।


वाचस्पत्यम्

रुट ||‍ रोधे सक० दीप्तौ अक० चु० उभ० सेट् । रोटयति ते अरूरुटत् त ।


शब्दकल्पद्रुमः

रुट || इ स्तेये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
पञ्चमस्वरी । इ, रुण्ट्यते धनं चौरेण । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रुट || ऌ ङ दीप्तिप्रतिहत्योः । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-अक० च-सेट् ।)
ऌ, अरुटत् । ङ, रोटते । प्रतिहतिः शोकादिना पातनं पुनर्हननं वा । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

रुट || क रुषि । द्युतौ । इति कविकल्पद्रुमः ॥ (चुरा०-पर०-अक०-सेट् ।)
क, रोटयति ॥ इति दुर्गादासः ॥



Correction: