वाचस्पत्यम्
रुदादि || पु० सार्वधातुके हलादौ इड्निमित्ते शब्दगणे स च गणः “रोदितिः स्वपितिश्चैव श्वसितिः प्राणितिस्तथा । जक्षितिश्चैवं विज्ञेयो रुदादिः पञ्चको गणः” ।