वाचस्पत्यम्
रुदित || न० रुद—भावे क्त । १ क्रन्दने अमरः । कर्त्तरि क्त । २ कृतरोदने त्रि० ।
शब्दकल्पद्रुमः
रुदितं || क्ली (रुद् + क्तः ।)
क्रन्दनम् । इत्यमरः ॥ तद्बति, त्रि ॥ (यथा, महाभारते । १३ । २३ । ६ । “केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् । रुदितञ्चावधूतञ्च तं भागं रक्षसां विदुः ॥”)