वाचस्पत्यम्
रुद्र || पु० रोदिति रुद—रक् । १ शिवमूर्त्तिभेदे “सोऽरोदीत् यद- रोदीत् तत् रुद्रस्य रुद्रत्वम्” श्रुत्युक्ते २ वह्नौ च । “अजैक- पादर्हिर्बुध्नो विरूपाक्षः सुरेश्वरः । जयन्तो बहुरूपश्च त्र्यस्वकोऽप्यराजितः । वैवस्वतश्च सावित्रो हरो रुद्रा इति स्मृताः” ३ इत्युक्तेषु एकादशपु शिवमूर्त्तिभेदेषु व० व० यजु० १६ अ० उक्तेषु “नमस्ते! रुद्र मन्यवे” इत्यादिषु ४ रुद्र- गणषु च । ५ एकादशसंख्यायाम् ६ आर्द्रानक्षत्रे च ।
शब्दकल्पद्रुमः
रुद्रः || पुं, (रोदयतीति । रुद् + णिच् + “रोदेर्णि लुक् च ।” उणा० २ । २२ । इति रक् । णेश्च लुक् ।)
आदित्यपत्रवृक्षः । इति राजनिर्घण्टः ॥ शिवः । (यथा, महाभारते । १३ । १७ । ४६ । “त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्व्विभुः ॥”)
गणदेवताविशेषः । इत्यमरः ॥ अयं अग्नि- मूर्त्तिः । यथा रुद्राय अग्निमूर्त्तये नमः । इति तिथ्यादितत्त्वे शिवपूजापद्धतिः ॥ स च ब्रह्मणः क्रोधरूपः सृष्टिकाले भ्रूमध्याज्जातः । तत्- सृष्टः भूतप्रेतपिशाचादिः । अयमेवान्ते संहार- कर्त्ता । इति भागवतम् ॥ * ॥
अथैकादश- रुद्रनामानि यथा । अजः १ एकपात् २ अहि- ब्रघ्नः ३ पिणाकी ४ अपराजितः ५ त्र्यस्वकः ६ महेश्वरः ७ वृषाकपिः ८ शम्भुः ९ हरणः १० ईश्वरः ११ । इति महाभारते दानधर्म्मः ॥ * ॥
अपि च । “अजैकपादहिब्रघ्नो विरूपाक्षः सुरेश्वरः । जयन्तो बहुरूपश्च त्र्यम्बकोऽप्यपराजितः । वैवस्वतश्च सावित्रो हरो रुद्रा इमे स्मृताः ॥” इति जटाधरः ॥ * ॥
अन्यच्च । “अजैकपादहिब्रध्नस्त्वष्टा रुद्रश्च वीर्य्यवान् । त्वष्टुश्चाप्यात्मजः पुत्त्रो विश्वरूपो महातपाः ॥ हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः । वृषाकपिश्च शम्भुश्च कपर्द्दो रैवतस्तथा ॥ एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः ॥” इति गारुडे ६ अध्यायः ॥ अग्निपुराणे त्वष्टृस्थाने कृत्तिवासाः ॥ * ॥
अप- रञ्च । “अजैकपदाहिब्रध्नो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ सावित्र्यश्च जयन्तश्च पिणाकी चापराजितः । एते रुद्राः समाख्याता एकादश गणेश्वराः ॥ एतेषां मानसानान्तु त्रिशूलवरधारिणाम् । कोटयश्चतुरशीतिस्तत् पुत्त्राश्चाक्षमा मताः ॥ दिक्षु सर्व्वासु ये रक्षां प्रकुर्व्वन्ति गणेश्वराः । पुत्त्रपौत्त्रसुतास्त्वेते सुरभीगर्भसम्भवाः ॥” इति मात्स्ये ५ अध्यायः ॥ * ॥
तस्य उत्पत्तिर्यथा, —
“प्रजाः स्रष्टुमनास्तेपे तपः परमदुश्चरम् । तस्यैवं तप्यमानस्य न किञ्चित् समवर्त्तत ॥ ततो दीर्घेण कालेन दुःखात् क्रोधो व्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ततस्तेभ्योऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् । सर्व्वांस्तानग्रजान् दृष्ट्वा ब्रह्मात्मानमविन्दत ॥ तदा प्राणमयो रुद्रः प्रादुरासीत् प्रभोर्मुखात् । सहस्रादित्यसङ्काशो युगान्तदहनोपमः ॥ रुरोद सस्वरं घोरं देवदेवः स्वयं शिवः । रोदमानं तदा ब्रह्मा मारोदीरित्यभाषत । रोदनाद्रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥ अन्यानि सप्तनामाति पत्नीः पुत्त्रांश्च शाश्वतान् । स्थानानि चैषामष्टानां ददौ लोकपितामहः ॥ भवः शर्व्वस्तथेशानः पशूनाम्पतिरेव च । भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥ सूर्य्यो जलं मही वह्निर्व्वायुराकाशमेव च । दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्त्तयः ॥ स्थानेषु तेषु ये रुद्रं ध्यायन्ति मनुजाधिप । तेषामष्टतनुर्द्देवो ददाति परमं पदम् ॥ सुवर्च्चला तथैवोमा विकेशा च शिवा तथा । स्वाहा दिशा च दीक्षा च रोहिणीति च पत्नयः ॥ शनैश्चरस्तथा शुक्रो लोहिताक्षी मनोजवः । सन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥” इति कौर्म्मे १० अध्यायः ॥ * ॥
विष्णुरुद्रयोरभेदो यथा, —
“सदैव देवो भगवात् महादेवो न संशयः । मन्यन्ते ये जग्द्योनिं विभिन्नं विष्णुमीश्वरात् । मोहादवेदनिष्ठाद्वा ते यान्ति नरकं नराः ॥ वेदानुवर्त्तिनं रुद्रं देवं नारायणन्तथा । एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते ॥” इति च तत्रैव १३ अध्यायः ॥ * ॥
कल्पभेदे तस्योत्पत्तिनामस्थानभार्य्यादीनि यथा, “चुकोप च ततो ब्रह्मा ज्वलन्निव हुताशनः । ततः कोपं स्वपुत्त्रेभ्यः कृतमन्याय्यमित्यपि ॥ विचार्य्य परिवर्द्धन्तं नियन्तुमुपचक्रमे । यत्नान्नियम्यमानोऽपि स कोपः परमेष्ठिनः ॥ भ्रुवोर्म्मध्यादथोद्भूतः कुमारो नीललोहितः । जातमात्रः कुमारोऽसौ रुरोद भगवान् भवः ॥ ब्रह्मोवाच कथं पुत्त्ररोदिषि त्वं महाबल । तन्मे कथत कामन्ते सद्यः सम्पादयाम्यहम् ॥ रुद्र उवाच । नामानि कुरु मे ब्रह्मन् ! स्थानानि च जगद्- गुरो । पत्नीश्च देहि भगवन् ततः शान्तिर्भविष्यति ॥ ब्रह्मोवाच । जानामि त्वां देवदेवं पूर्व्वं दत्तं वरं मम । सत्यं कर्त्तुं भबान् जातस्त्वं हि सर्व्वेश्वरेंश्वरः ॥ जातमात्रो रोदिषि त्वं ततो रुद्र इति स्मृतः । नामान्यन्यानि ते देव विधास्ये शृणु पुत्त्रक ॥ ऋतध्वजो मनुर्मन्युरुग्ररेता महान् शिवः । भवः कालो महिनसो वामदेवो धृतव्रतः ॥ एतानि तव नामानि ये स्मरन्ति नरा भुवि । तेषां सदैव कल्याणं करिष्यसि महामते ॥ स्थानानि च प्रवक्ष्यामि तेषु वासो विधीयताम् ॥ इन्द्रियाण्यसुहृद्ब्योम वायुरग्निर्जलं मही । तपश्चन्द्रश्च सूर्य्यश्च स्थानान्येतानि ते भव ॥ धृतिर्धीरसिलोमा च नियुत् सर्पिर्विलम्बिका । इरावती स्वधा दीक्षा योषितस्तव सुन्दरी ॥ प्रजाः सृज महाभाग जगदेतत् प्रपूरय ॥ इत्यादिष्टः स भगवान् ब्रह्मणा नीललोहितः । सृष्टवान् स प्रजा बह्वीर्भूतप्रेतपिशाचकान् । कुष्माण्डान् विकृताकारान् भैरवान् भीम- नादिनः ॥ तान दृष्ट्वा तु तदा ब्रह्मा जगद्विद्रावकान् बहून् । वारयामास पुत्त्र त्वं मा स्राक्षीरीदृशीः प्रजाः ॥ तपसा विष्णुमाराध्य विहरस्व यथासुखम् । इति ते कथितो राजन् ! रुद्रसर्गः प्रजापतेः ॥ यं श्रुत्वापि नरः सद्यो जह्याद्भूतकृतं भयम् ॥” इति पाद्मे स्वर्गखण्डे रुद्रसर्गः ८ अध्यायः ॥ * ॥
प्रकारान्तरं यथा, —
“कथितस्तमसः सर्गो ब्रह्मंस्तेऽयं महामुने । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत् प्रभोरङ्के कुमारो नीललोहितः ॥ रुदन् वै सस्वरं सोऽथ द्रवंश्च द्बिजसत्तम ! । किं करोषीति तं ब्रह्मा रुदन्तं प्रत्युवाच वै ॥ नाम धेहीति तं सोऽथ प्रत्युवाच प्रजापतिम् । रुद्रस्त्वं देव नामासि मारोदीर्घैर्य्यमाप्नुहि ॥ एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै । ततोऽन्यानि ददौ तस्मै सप्त नामानि स प्रभुः ॥ स्थानानि चैषामष्टानां पत्नीः पुत्त्रांश्च वै प्रभुः ॥ भवं शर्व्वमथेशानं तथा पशुपतिं द्विज । भीममुग्रं महादेवमुवाच स पितामहः ॥ चक्रे नामान्यथैतानिं स्थानान्येषां चकार सः ॥ मूर्य्यो जलं मही वह्निर्व्वायुराकाशमेव च । दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् ॥ सुवर्च्चला तथैवोषा सुकेशी चापरा शिवा । स्वाहा दिशस्तथा दीक्षा रोहिणी च यथा- क्रमम् ॥ सूर्य्यादीनां नरश्रेष्ठ रुद्राद्यैर्नामभिः सह । पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ॥ येषां सूतिप्रसूतेश्च इदमापूरितं जगत् । शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः ॥ स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात् सुताः । एवंप्रकाररुद्रोऽसौ सतीं भार्य्यामविन्दत ॥ दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम् । हिमवद्दुहिता साभून्मेनायां द्विजसत्तम ! ॥ उपयेमे पुनश्चोमामनन्यां भगवान् भवः ॥ देवौ धाता विधातारौ भृगोः ख्यातिरसूयत । श्रियञ्च देवदेवस्य पत्नी नारायणस्य या ॥” इति विष्णुपुराणे १ अंशे ८ अध्यायः ॥ * ॥
(“द्बितीये हि युगे सर्व्वमक्रोधव्रतमास्थितम् । दिव्यं सहस्रवर्षाणामसुरा अभिदुद्रुवुः ॥ तपोविघ्नं शमीकर्त्तुन्तपोविघ्नं महात्मनाम् । पश्यन् समर्थश्चोपेक्षाश्चक्रे दक्षः प्रजापतिः ॥ पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः । प्रायो न कल्पयामास प्रोच्यमानः सुरैरपि ॥ पाशुपत्य ऋचो याश्च शैव्यश्चाहुतयश्च याः । यज्ञसिद्धिकृतस्ताभिर्हीनञ्चैव स इष्टवान् ॥ अथोत्तीर्णव्रतो देवो बुद्धा दक्षव्यतिक्रमम् । रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः ॥ सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः । बाणं क्रोधाग्निसन्तप्तमसृजत् शत्रुनाशनम् ॥ ततो यज्ञः स विध्वस्तो व्यथिताश्च दिवौकसः । दाहव्यथा परीताश्च भ्रान्ता भूतगणा दिशः ॥” इति चरके चिकित्सास्थाने तृतीयेऽध्याये ॥)
रुद्रगीता वराहपुराणे द्रष्टव्या ॥ * ॥
(विश्व- कर्म्मपुत्त्रविशेषः । यथा, विष्णुपुराणे । १ । १५ । १२२ । “तस्य पुत्त्रास्तु चत्वारस्तषां नामानि मे शृणु । अजैकपादहिब्रध्नस्त्वष्टा रुद्रश्च बुद्धिमान् ॥”)
स्वनामख्यातः कविविशेषः । स च विद्याविलास- पुत्त्रः भावविलासप्रणेता । कविरयं मानसिंह- पुत्त्रस्य भावसिंहमहीपतेः समये बभूव । स च भावसिंहमहीपतिर्व्वर्त्तमानजयपुरमहा- राजस्य षोडशः पूर्ब्बपुरुषः । तथा च भाव- विलासे । १३४ — १३६ । “अन्यापदेशविनिवेशविदग्धबुद्धि- श्रीभावसिंहनरसिंहनियोगयोगात् । सम्पादितो विविधभावविकासभाजां प्रीत्यै भृशं भवतु भावविलास एषः ॥” सद्गुणानां समुद्रेण रुद्रेण ग्रथिता गुणैः । कण्ठस्था श्लोकमालेयं केषां न कुरुते श्रियम् ॥ विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् । काव्यालापविदग्धानां मुदं निर्म्मातु निर्म्मितिः ॥”)