संस्कृत-शब्दकोशः

रुद्रसर्ग रुद्रसू

रुद्रसावर्णि

वाचस्पत्यम्

रुद्रसावर्णि ||‍ पु० चतुर्दशसु मनुषु द्वादशे मनौ मार्क० पु० ।


शब्दकल्पद्रुमः

रुद्रसावर्णिः || पुं, द्वादशो मनुः । अस्मिन् मन्वन्तरे सुधामाख्योऽवतारः । ऋतधामा इन्द्रः । हरि- तादयो देवाः । तपोमूर्त्त्यादयः सप्तर्षयः । देव- वदुपदेवादयो मनुपुत्त्रा भविष्यन्ति । इति श्रीभागवतमतम् ॥ अपि च । “द्बादशे रुद्रपुत्त्रस्य प्राप्ते मन्वन्तरे मनोः । सावर्ण्याख्यस्य ये देवा मुनयश्च शृणुष्व तान् ॥ सुकर्म्माणः सुमनसो हरितो रौहितस्तथा । सुरापाश्च सुरास्तत्र पञ्चैते दशका गणाः ॥ त्रिःप्रकारा भविष्यन्ति एकैकस्त्रिंशको गणः । तेषामिन्द्रो हि विज्ञेयो ऋतधामा महाबलः ॥ सर्व्वैरिन्द्रगुणैर्युक्तः सप्तर्षीनपि मे शृणु । द्युतिस्तपस्वी सुतपास्तपोमूर्त्तिस्तपोनिधिः ॥ तपोरतिस्तथैवान्यः सप्तमस्तु तपोधृतिः । देववान् वामदेवश्च देवश्रेष्ठो विदूरथः । मित्रवान्मित्रदूतश्च भाविनस्तत्सुता मनोः ॥” इति मार्कण्डेयपुराणम् ॥



Correction: