शब्दकल्पद्रुमः
रुद्रसूः || स्त्री (रुद्रं तत्परिमितपुत्त्रं सूते इति । सू + किप् ।) एकादशपुत्त्रजननी । यथा, — “विल्वसूर्दशपुत्त्रा स्यादेकाधिका तु रुद्रसूः ॥” इति शब्दरत्नावली ॥