संस्कृत-शब्दकोशः

रुद्राक्रीड रुद्राणी

रुद्राक्ष

वाचस्पत्यम्

रुद्राक्ष ||‍ पु० रुद्रस्याक्षि कारणत्वेनास्त्यस्य अच् । खनामख्याते वृक्षे तन्माहात्मादि नि० सि० उक्तं यथा ||‍लैङ्गे “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्ष- मालया । पूजितोऽपि सहादेवो न स्यात्तस्य फलप्रदः । तस्मान्मृदापि कर्त्तव्य ललाटे वै त्रिपुण्ड्रकम्” रुद्राक्ष- विशेषाः शिवरहस्ये “एकवक्त्रः, शिवः माक्षाद् ब्रह्म- हत्यां व्यपोहति । अबध्यत्वं प्रतिस्रोतो वह्निस्तम्भं करोति च । द्विवक्त्रो २ हरगौरी स्याद्गोवधाद्यघनाश- कृत् । त्रिवक्त्रो ३ ह्यग्निजन्माथ पापराशिं प्रणाशयेत् । चतुर्वक्त्रः ४ स्वयं व्रह्मा नरहत्यां व्यपोहति । पञ्चवक्त्र ५ स्तु कालाग्निरगम्याभक्ष्यपापनुत् । षड्वक्त्र ६ स्तु गुहो ज्ञेयो भ्रूणहत्यादि नाशयेत् । सप्तवक्त्र ७ स्त्वनन्तः स्यात् स्वर्ण- स्तेयादिपापहृत् । विनायकोऽष्टवक्त्रः ८ स्यात् सर्वानृत- विनाशकृत् । भैरवो नववक्त्र ९ स्तु शिवसायुज्यकारकः । दशवक्त्रः १० स्मृतो विष्णुर्भूतप्रेतमयापहः । एकादशमुखो ११ रुद्रो नानायज्ञफलप्रदः । द्वादशास्य १६ स्तथादित्यः सर्वरोगनिवर्हणः । त्रयोदशमुखः १३ कामः सर्वकाम फलप्रदः । चतुर्दशास्यः १ श्रीकण्ठो वंशोद्धारकरःपरः” इति । तथा “विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः । स याति नरकान् घोरान् यावदिन्द्राश्चतु- र्दश । पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत् । रु- द्राक्षस्य प्रतिष्ठायां मन्त्रं पञ्चाक्षरं तथा । त्रियम्ब- कादिमन्त्रं च तथा तत्र प्रयोजयेत्” तथा “अष्टोत्तरशतं धार्य्यं चतुःपञ्चाशदेव वा । सप्तविंशतिमाला वा ततो हीनाधमा स्मृता” । प्रजापतिः “मोक्षार्थी पञ्चविंशत्या धनार्थी त्रि शता जपेत् । पुष्ट्यर्थी पञ्चत्रिंशत्या पञ्च- दश्याभिचारके । सप्तविंशतिरुद्राक्षमालया देहसं- स्थया । यत् करोति नरः पुण्य सर्वं कोटिगुणं भवेत् । यो ददाति द्विजेम्यश्च रुद्राक्षं भुवि सन्मुखम् । तस्य प्रोतो भवेद्रुद्रः स्वपदं च प्रयच्छति” । पदार्थादर्शे वोपदेवः “रुद्राक्षान् कण्ठदेशे दशन ३२ परिमितान् मस्तके विंशती द्वे ४० षट् षट् कर्णप्रदेशे करयुगुलधृता द्वादशद्वादशैव । बाह्वोरिन्दोः १६ कलाभिर्नयनयुगधृतयगं ह्येवमेकं शिखायां वक्षस्यष्टाधिकं यः कलयति शतकं सः स्वयं नीलकण्ठः” ।


शब्दकल्पद्रुमः

रुद्राक्षं || क्ली (रुद्रस्य अक्षि कारणत्वेनास्त्य- स्येति । अर्शआदित्वादच् ।)
स्वनामख्यात- वृक्षबीजम् । तस्य स्थूलत्वं प्रशस्तत्वञ्च यथा, —
“रुद्राक्षं शिवलिङ्गञ्च स्थूलं स्थूलं विशिष्यते । शालग्रामो नार्म्मदञ्च सूक्ष्मः सूक्ष्मो विशिष्यते ॥” इति मेरुतन्त्रे ९ प्रकाशः ॥


शब्दकल्पद्रुमः

रुद्राक्षः || पुं, स्वनामख्यातवृक्षः । तत्पर्य्यायः । तृण- मेरुः २ अमरः ३ पुष्पचामरः ४ । इति शब्द- रत्नावली ॥ तस्य फलपर्य्यायः । शिवाक्षम् १ सर्पाक्षम् २ भूतनाशनम् ३ पावनम् ४ नील- कण्ठाक्षम् ५ हराक्षम् ६ शिवप्रियम् ७ । अस्य गुणाः । अम्लत्वम् । उष्णत्वम् । वात- कृमिशिरोऽर्त्तिभूतग्रहविषनाशित्वम् । रुच्य- त्वञ्च । इति राजनिर्घण्टः ॥ शिवपूजायां अस्य मालाधारणमावश्यकम् । यथा, लिङ्गपुराणे । “विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया । पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥” तस्योत्पत्तिर्यथा । संवत्सरप्रदीपे । “त्रिपुरस्य वधे काले रुद्रस्याक्ष्णोऽपतंस्तु ये । अश्रुणो बिन्दवस्ते तु रुद्राक्षा अभवन् भुवि ॥” यद्यप्येकादिचतुर्द्दशमुखरुद्राक्षेषु मन्त्रफल- विशेषाः सन्ति तथापि सुलभत्वात् पञ्च- वक्त्रस्य फलमन्त्रावभिधीयेते । यथा, स्कान्दे । “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अगम्यागमनाच्चैव अभक्षस्य च भक्षणात् । मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात् ॥ हूं नमः इति प्रत्येकमष्टोत्तरशतं जप्ता शिवा- म्भसा प्रक्षाल्य धारणीयम् । “विणा मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवाः । स याति नरकं घोरं यावदिन्द्राश्चतुर्द्दश ॥” इति तिथ्यादितत्त्वम् ॥ * ॥
तस्य धारणे आवश्यकत्वं यथा, संवत्सर- प्रदीपे । “अरुद्राक्षधरो भूत्वा यद्यत् कर्म्म च वैदिकम् । करोति जपहोमादि तत् सर्व्वं निष्फलं भवेत् ॥” स्कान्दे । “ध्यानधारणहीनोऽपि रुद्राक्षं धारयेद्बुधः । सर्व्वपापविनिर्मुक्तः स याति परमां गतिम् ॥” इत्येकादशीतत्त्वम् ॥ अथ रुद्राक्षमाहात्म्यम् । श्रीमहादेव उवाच । “इदानीं देवदेवेशि ! मालानां धारणं शुभम् । रुद्राक्षस्य च माहात्म्यं वद मे परमेश्वरि ! ॥ श्रीदेव्युवाच । “शिखायां हस्तयोः कण्ठे कर्णयोश्चापि यो नरः । रुद्राक्षं धारयेद्भक्त्या शिवलोकमवाप्तुयात् ॥ नववक्त्रन्तु रुद्राक्षं धारयेद्वामबाहुना । दक्षबाहौ तथा वत्स ! धारयेद्यतमानसः ॥ शिखायां दशनं धार्य्यं कण्ठे च पञ्चविंशतिम् । कर्णयोः पञ्च संधृत्या हृदि चाष्टोत्तरं शतम् ॥ नाभौ सप्त च रुद्राक्षं धारणान्मोक्षभाग्भवेत् । रुद्राक्षधारणादेव नरो देवत्वमाप्नुयात् ॥” शिखायां दशनं द्बात्रिंशत्परिमितम् ॥ तथा । “रुद्राक्षं धारयेन्नित्यं भद्राक्षञ्च सुरेश्वर ! । रुद्राक्षस्य महाबाहो माहात्म्यं शृणु यत्नम्ः ॥ एकवक्त्रः शिवः साक्षात् ब्रह्महत्यां व्यपोहति । अवध्यत्वं प्रतिश्रोतो बह्निस्तम्भं करोति च ॥ द्विवक्त्रे हरगौरी स्यात् गोवधाद्यघनाशकृत् । त्रिवक्त्रोऽग्निस्त्रिजन्मोत्थपापराशिं प्रणाशयेत् ॥ तुलाराशिं यथा वह्निर्भस्मसात् कुरुते हर ! । त्रिवक्त्रोऽपि चरुद्राक्षस्तथा दहति किल्विषम् ॥ चतुर्व्वक्त्रस्तु धाता स्यात् नरहत्यां व्यपोहति । पञ्चवक्त्रस्तु कालाग्निरगम्याभक्ष्यपापनुत् ॥ षड्वक्त्रो यो गुहः साक्षात् गर्भहत्यां शमेदयम् । सप्तवक्त्रो ह्यनन्तश्च स्वर्णस्तेयाघनुत् सदा ॥ विनायकोऽष्टवक्त्रः स्यात् सर्व्वानृतविनाशकृत् । भैरवो नववक्त्रः स्यात् शिवसायुज्यदायकः ॥ दशवक्त्रः स्वयं विष्णुर्भूतप्रेतपिशाचहा । एकादशमुखो रुद्रो नानायज्ञफलप्रदः ॥ द्वादशास्यो भवेदर्कः सर्व्वतीर्थफलप्रदः । त्रयोदशमुखः कामः सर्व्वकामफलप्रदः ॥ चतुर्द्दशास्यः श्रीकण्ठो वंशोद्धारकरः स्मृतः । यथोक्तन्तेऽपि रुद्राक्षे तथेन्द्राक्षे प्रकीर्त्तितम् ॥ भद्राक्षेऽपि सुरश्रेष्ठ तद्गुणं प्ररिकीर्त्तितम् ॥” इति योगसारे २ परिच्छेदः ॥ अपि च । “निश्छिद्राश्च सुपक्वाश्च रुद्राक्षा धारणे स्मृताः । पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत् ॥ रुद्राक्षस्य प्रतिष्ठायां मन्त्रं पञ्चाक्षरं तथा । त्र्यम्बकादिकमन्त्रञ्च तथा तत्र प्रयोजयेत् ॥ ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्व्वारुकमिव वन्धनान्मृत्योर्मुक्षीयमामृतात् ॥ तथा ॐ हौं अघोरे हौं घोरे हूं घोरघोरतरे ॐ ह्नैं ह्नीं श्रीं ऐं सर्व्वतः सर्व्वसर्व्वेभ्यो नमस्ते- ऽस्तु रुद्ररूपिणे हूं हूं । अनेनापि च मन्त्रेण रुद्राक्षस्य द्विजोत्तमः । प्रतिष्ठां विधिवत् कुर्य्यात् ततोऽधिकफलं लभेत् ॥ ततो यथा स्वमन्त्रेण धारयेद्भक्तिसंयुतः ॥ एकादिचतुर्द्दशवक्त्राणां संस्कारे प्रत्येकं क्रमेण मन्त्रा यथा । ॐ ॐ भृशं नमः । १ । ॐ ॐ नमः । २ । ॐ ॐ नमः । ३ । ॐ ॐ ह्नीं नमः । ४ । ॐ हूं नमः । ५ । ॐ हूं नमः । ६ । ॐ ॐ हूं हूं नमः । ७ । ॐ नमः । ८ । हूं नमः । ९ । ॐ हं नमः । १० । ॐ ह्नीं नमः । ११ । ॐ ह्नीं नमः । १२ । ॐ क्षां क्षौं नमः । १३ । ॐ नमो नमः । १४ । “रुद्राक्षे देहसंस्थे तु कुक्कुरो म्रियते यदि । सोऽपि रुद्रपदं याति किं पुनर्मानवा गुह ॥ सप्तविंशतिरुद्राक्षमालया देहसंस्थया । यः करोति नरः पुण्यं सर्व्वं कोटिगुणं भवेत् ॥ यो ददाति द्बिजातिभ्यो रुद्राक्षं भुवि षण्मुख । तस्य प्रीतो भवेद्रुद्रः स्वपदञ्च प्रयच्छति ॥ विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः । स याति नरकान् घोरान् यावदिन्द्राश्चतुर्द्दश ॥” इति पद्मपुराणे रुद्राक्षमाहात्म्यम् । इति तन्त्रसारः ॥



Correction: