वाचस्पत्यम्
रुद्राणी || स्त्री रुद्रस्य पत्नी रुद्र + ङीष् आनुक् च । शिव- पत्न्याम् दुर्गायाम् अमरः ।
शब्दकल्पद्रुमः
रुद्राणी || स्त्री (रुद्रस्य पत्नी । “इन्द्रवरुणभव- शर्व्वरुद्रेति ।” ४ । १ । ४९ । इति ङीष् ।)
दुर्गा । इत्यमरः ॥ तस्या व्युत्पत्तिर्यथा, —
“रुद्रस्येयन्तु रुद्राणी रौद्रं हन्ति करोति या ॥” इति देवीपुराणे ४५ अध्यायः ॥ रुद्रजटा । इति राजनिर्घण्टः ॥