संस्कृत-शब्दकोशः

रुध रुधिराख्य

रुधिर

वाचस्पत्यम्

रुधिर ||‍ न० रुध—किरच् । शरीरस्थे रसपाकजन्ये १ धातुभेदे २ कुङ्कुमे अमरः । ३ मङ्गलग्रहे ४ रक्तवर्णे च पु० मेदि० ५ तद्वर्णवति त्रि० । ६ मणिभेदे न० । तदुद्भवादि यथा “हुतभुग्रूपमादाय दानवस्य यथेप्सितम् । नर्मदायां निचिक्षेप किञ्चिद्धीनादि भूतले । तत्रेन्द्रगोपकलितं शुकरक्तवर्णं संस्थानतः प्रकरपीलुसमानमात्रम् । नाना- प्रकारविहितं रुधिराख्यरत्नमुद्धृत्य तस्य खलु सर्वसमा- नगेव । मध्यन्दुपाण्डरमतीव विशुद्धवर्णं तच्चेन्द्रनील- सदृशं पटलं तले स्यात् । सैश्वर्य्यभृत्यजनन कथितं तदेव पक्वञ्च तत् किल भवेत् सुरवज्रवर्णम्” गरु० पु० ७८ अ० ।


शब्दकल्पद्रुमः

रुधिरं || क्ली (रुणद्धि रुध्यते इति वा । रुध + “इषिमदिमुदीति ।” उणा० १ । ५२ । इति किरच् ।)
शरीरस्थरसभवधातुः । तत्पर्य्यायः । रक्तम् २ अस्रम् ३ त्वग्जम् ४ कीलालम् ५ क्षतजम् ६ शोणितम् ७ लोहितम् ८ असृक् ९ शोणम् १० लोहम् ११ चर्म्मजम् १२ । इति राजनिर्घण्टः ॥ (यथा, —
“तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा । युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्त्तते ॥” “वलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा । रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा ॥” इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये ॥ “चतुर्व्विधं यदेतद्धि रुधिरस्य निवारणम् । सन्धानं स्कन्दनञ्चैव पाचनं दहनन्तथा ॥ वणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् । तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् शिराः ॥ अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् । सन्धाने स्रस्यमाने तु पाचनैः समुपाचरेत् ॥ कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि । असिद्धिमत्सु चैतेषु दाहः परम इष्यते ॥ सशेयदोषे रुधिरे न व्याधिरतिवर्त्तते । सावशेवे ततः स्थेयं न तु कुर्य्यादतिक्रमम् ॥ देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते । तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः ॥” इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये ॥ रुधिरस्रावेऽनध्ययनमुक्तं यथा, मनौ । ४ । १२२ । “रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते । सामध्वनावृग्यजुषी नाधीयीत कदाचन ॥”)
कुङ्कुमम् । इत्यमरः ॥ (यथा, रघुः । ११ । २० । “राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥”)


शब्दकल्पद्रुमः

रुधिरः || पुं, (रुध + किरच् ।)
मङ्गलग्रहः । इति मेदिनी ॥



Correction: