वाचस्पत्यम्
रुरु || पु० रु—क्रु । मृगभेदे अमरः ।
शब्दकल्पद्रुमः
रुरुः || पुं, (रौतीति । रु + “रुशातिभ्यां क्रुन् ।” उणा० ४ । १०३ । इति क्रुन् ।)
मृगविशेषः । इत्यमरः ॥ (यथा, महाभारते । ३ । ५० । ७ । “रुरून् कृष्णमृगांश्चैव मेध्यांश्चान्यान् वनेचरान् । वाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत् ॥”)
अस्य मांसगुणाः । स्निग्धत्वम् । गुरुत्वम् । मन्दाग्निबलप्रदत्वञ्च । इति राजनिर्घण्टः ॥ दैत्यभेदः । इति मेदिनी । रे, ७९ ॥ (यथा, कथासरित्सागरे । ५३ । १७१ । “एकानंशे शिवे दुर्गे नारायणि सरस्वति । भद्रकालि महालक्ष्मि सिद्धिरुरुविदारिणि ॥” क्रूरसत्त्वविशेषः । तस्य भारशृङ्ग इति नाम । इति भागवतटीकायां श्रीधरः । ५ । २६ । ११ ॥ यथा च देवीभागवते । ८ । २२ । १० — ११ । “इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा । त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ॥ तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः । रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः ॥” स्वनामख्यातमुनिविशेषः । स तु च्यवनस्य पौत्त्रः । अयमेव निजायुषोऽर्द्धं दत्त्वाप्रियां जीवयामास । अस्य विवरणं देवीभागवते २ स्कन्धे ८ अध्याय- मारभ्य तथा महाभारते १ पर्व्वणि ५ अध्याय- मारभ्य द्रष्टव्यम् ॥)