शब्दकल्पद्रुमः
रुट् || [ष्] स्त्री, (रुष् + क्विप् ।)
क्रोधः । इत्य- मरः । १ । ७ । २६ ॥ (यथा, भागवते । १ । १८ । ३० । “स तुं ब्रह्म ऋषेरंशे गतासुमुरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागतः ॥”)
शब्दकल्पद्रुमः
रुड् || [ष्] स्त्री, (रुष क्रुधि + क्विप् ।)
रुट् । इति व्याकरणम् ॥