वाचस्पत्यम्
रूढि || स्त्री रुह—क्तिन् । १ जन्मनि, २ प्रसिद्धौ, प्रकृतिप्रत्ययार्थ- मनपेक्ष्य शब्देन समुदायशक्त्यार्थस्य ३ बोधने ४ शब्द- शक्तिभेदे च “शब्दात्मिका सती रूढिर्भवेद्योगापहा- रिणी । कल्पनीया तु लभते नाकानं योगबाधतः” कुमारभट्टः । लब्धात्मिका कॢप्ता शक्तिर्योगबाधिका, कल्प- नीया तु योगबाध्या” इत्यर्थः ।
शब्दकल्पद्रुमः
रूढिः || स्त्री (रुह + क्तिन् ।)
जन्म । प्रादुर्भावः । (प्रसिद्धिः । यथा, राजतरङ्गिण्याम् । ४ । २७१ । “रुढिः परम्परायाता सेयमस्मद्गृहे स्थिता ॥” आरोहणम् । यथा, तत्रैव । १ । २८५ । “यात्याश्रितः किल समाश्रयणीयलभ्यां निन्द्यां गतिं जगति सर्व्वजनार्च्चितां वा । गच्छत्यधस्तृणगुणः श्रितकूपयन्त्रः पुष्पाश्रया सुरशिरोभुवि रूढिमेति ॥”)
रूढशब्दनिष्ठशक्तिः । यथा, —
“लब्धात्मिका सती रूढिर्भवेद्योगापहारिणी । कल्पनीया तु लभते नात्मानं योगवाधतः ॥” इति कुमारभट्टकारिका ॥