वाचस्पत्यम्
रूपवत् || त्रि० रूप + मतुप् मस्य वः । १ शुभ्रादिरूपविशिष्टे, २ सौन्दर्य्ययुक्ते ३ आकारविशिष्टे च ।
शब्दकल्पद्रुमः
रूपवान् || [त्] त्रि, (रूपमस्यास्तीति । रूप + “रसादिभ्यश्च ।” ५ । २ । ९५ । इति मतुप् । मस्य वः ।)
आकारविशिष्टः । (यथा, भाग- वते । २ । ५ । २७ । “वायोरपि विकुर्व्वाणात् कालकर्म्मस्वभावतः । उदपद्यत वै तेजो रूपवत् स्पर्शशब्दवत् ॥”)
सौन्दर्य्ययुक्तः । (यथा, महाभारते । ३ । ४५ । १२ । “सत्यवाक् पूजितो वक्ता रूपवाननहङ्कृतः ॥”)