संस्कृत-शब्दकोशः

रूपास्त्र रूपेश्वरी

रूपिका

वाचस्पत्यम्

रूपिका ||‍ स्त्री रूपमस्त्यस्य ठन् । श्वेतार्कवृक्षे रत्नमा० ।


शब्दकल्पद्रुमः

रूपिका || स्त्री (रूपमस्या अस्तीति । रूप + ठन् ।)
श्वेतार्कवृक्षः । इति रत्नमाला ॥ (यथा, सुश्रुते । ५ । ६ । “पललं तिलतैलञ्च रूपिकायाः पयो गुडः ॥”)



Correction: