संस्कृत-शब्दकोशः

रूपिका रूप्य

रूपेश्वरी

शब्दकल्पद्रुमः

रूपेश्वरी || स्त्री (रूपाणामीश्वरी ।)
देवीविशेषः । सा तु प्रभवादिषष्टिवर्षान्तर्गतैकविंशवर्षे पूज्या । यथा, —
“रूपेश्वरी प्रकर्त्तव्या वृषयुग्मव्यवस्थिता । जटामुकुटभारेन्दुत्रिशूलोरगभूषणा ॥ मणिमौक्तिकशोभाढ्या सितचन्दनचर्च्चिता । पूजिता कुसुमैर्हृद्यैः सर्व्वकामफलप्रदा ॥” इति देवीपुराणे संवत्सरदेवताविंशतिविधिः प्रथमः ॥



Correction: