संस्कृत-शब्दकोशः

रूपेश्वरी रूप्याध्यक्ष

रूप्य

वाचस्पत्यम्

रूप्य ||‍ न० रूपाय आहन्यते स्वर्णादि यत् । अलङ्कारादिनि- र्म्माणाय आहन्थमाने १ स्वर्णे २ रजते च अमरः । स्वार्थे यत् । ३ रजतमात्रे रजतशब्दे ४७८९ पृ० दृश्यम् । ४ सुन्दरे त्रि० मेदि० ।


शब्दकल्पद्रुमः

रूप्यं || क्ली (आहतं रूपं अस्यास्तीति । रूप् + “रूपादाहतप्रशंसयोर्यप् ।” ५ । २ । १२० । इति यप् ।)
आहतस्वर्णरजतम् । इत्यमरः । २ । ९ । ९१ ॥ हेम रूप्यञ्च आहतं अश्ववराहपुरुषादि- रूपमुत्थापयितुं निर्घातिकया ताडितं रूप्य- मुच्यते रूपाय आहतं रूप्यं ढघे कादिति ष्ण्यः । इति भरतः ॥ * ॥
धातुविशेषः । रूपा इति भाषा ॥ (यथा, महाभारते । ५ । ३९ । ७९ । “सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥”)
तत्पर्य्यायः । शुभ्रम् २ वसुश्रेष्ठम् ३ रुधिरम् ४ चन्द्रलोहकम् ५ श्वेतकम् ६ महाशुभ्रम् ७ रजतम् ८ तप्तरूपकम् ९ चन्द्रभूति १० सितम् ११ तारम् १२ कलधूतम् १३ इन्द्रलोहकम् १४ रौप्यम् १५ धौतम् १६ सौधम् १७ चन्द्र- हासम् १८ । इति राजनिर्घण्टः ॥ खर्ज्जूरम् १९ दुर्व्वर्णम् २० श्वेतम् २१ रङ्गबीजम् २२ राज- रङ्गम् २३ लोहराजकम् २४ । इति शब्दरत्ना- वली ॥ कलधौतम् २५ । इति जटाधरः ॥ अस्य गुणाः । स्निग्धत्वम् । कषायत्वम् । अम्लत्वम् । विपाके मधुरत्वम् । सरत्वम् । वातपित्तहरत्वम् । रुच्यत्वम् । वलीपलितनाशित्वञ्च । इति राज- निर्घण्टः ॥ * ॥
अथ रूप्यस्योत्पत्तिनामलक्षण- गुणाः । “त्रिपुरस्य वधार्थाय निर्निमेषैर्व्विलोकनैः । निरीक्षयामास शिवः क्रोधेन परिपूरितः ॥ ततस्तूल्का समपतत्तस्यैकस्माद्विलोकनात् । अतो रुद्रः समभवद्बैश्वानर इव ज्वलन् ॥ द्वितीयादपतन्नेत्रादश्रुबिन्दुस्तु वामकात् । तस्माद्रजतमुत्पन्नमुक्तकर्म्मसु योजयेत् ॥ कृत्रिमञ्च भवेत्तद्धि रङ्गादिरसयोगतः । रूप्यन्तु रजतं तारं चन्द्रकान्ति सितं शुभम् ॥ गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षयम् । स्वर्णाद्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम् ॥ कठिनं कृत्रिमं रूक्षं रक्तं पीतं दलं लघु । दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम् ॥ रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् । वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥ प्रमेहादिकरोगांश्च नाशयत्यचिरात् ध्रुवम् । तारं शरीरस्य करोति तापं विध्वंसनं यच्छति शुक्रनाशम् । वीर्य्यं बलं हन्ति तनोश्च पुष्टिं महागदान् पोषयति ह्यशुद्धम् ॥” अथ मारणाय योग्यं रूप्यमाह । “गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षयम् । वर्णाढ्यं चन्द्रवत् स्वच्छं तारे नवगुणं स्मृतम् ॥” अथायोग्यम् । “कठिनं कृत्रिमं रूक्षं रक्तं पीतं दलं लघु । दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम् ॥” अथ शोधनविधिः । “पत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत् । निषिञ्चेत् तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । एवं रजतपत्राणां विशुद्धिः संप्रजायते ॥” अथाशुद्धस्य रूप्यस्य दोषमाह । “रूप्यं ह्यशुद्धन्तु करोति तापं विध्वंसनं वीर्य्यबलक्षयञ्च । देहस्य पुष्टिं हरते तनोति रोगांस्ततः शोधनमस्य कुर्य्यात् ॥” अथ रूप्यस्य मारणविधिः । “भागैकं तालकं मर्द्यं याममम्लेन केनचित् । तेन भागत्रयं तारपत्राणि परिलेपयेत् ॥ धृत्वा मूषापुटे रुद्ध्वा पुटेत् त्रिंशद्वनोपलैः । समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुनः पचेत् । एवं चतुर्द्दशपुटैस्तारं भस्म प्रजायते ॥” अन्यप्रकारः । “स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेप- येत् । तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् । पुटे चतुर्द्दशपुटैस्तारं भस्म प्रजायते ॥” एवं मारितस्य रूप्यस्य गुणाः । “रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् । वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित् ॥ प्रमेहादिकरोगांश्च नाशयत्यचिरात् ध्रुवम् ॥” इति भावप्रकाशः ॥ अथ रूप्यकरणम् । “मध्वाज्यं गुडताम्रञ्च करेणा माक्षिकं रसम् । धमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥” इति गारुडे १८८ अध्यायः ॥


शब्दकल्पद्रुमः

रूप्यं || त्रि (प्रशस्तं रूपं अस्यास्तीति । रूप + “रूपादाहतप्रशंसयोर्यप् ।” ५ । २ । १२० । इति यप् ।)
सुन्दरम् । इति मेदिनी । ये, ५० ॥ (क्ली, उपमेयम् । यथा, साहित्यदर्पणे १० परि- च्छेदे समासोक्त्यलङ्कारे । “तत्र हि तिमिरांशुकयोर्रूप्यरूपकभावो द्बयो- रावरकत्वेन स्फुटमिति ॥” * ॥
पुं, प्रत्ययविशेषः । स च तत आगत इत्येतस्मिन्विषये “हेतुमनुष्ये- भ्योऽन्यतरस्यां रूप्यः ।” ४ । ३ । ८१ । इति सूत्रेण हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां भवति ॥ यथा समादागतं समरूप्यम् । देवदत्तरूप्यम् ॥)



Correction: