वाचस्पत्यम्
रूषित || त्रि० रूष—क्त । १ धूल्यादिभिर्मिश्रिते, २ अचिक्कणी- कृते च अमरः ।
शब्दकल्पद्रुमः
रूषितं || त्रि (रूष + क्तः ।)
गुण्डितम् । इत्यमरः ॥ द्वे धूलिगुण्डकेनैव म्रक्षिते । गुडि क वेष्टे रूष त् क स्याद्बिस्फुरणे क्तः । इति भरतः ॥ (यथा, रामायणे । २ । ४२ । १५ । “यः सुखेनोपधानेषु शेते चन्दनरूषितः । वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥”)