संस्कृत-शब्दकोशः

रेका रेखागणित

रेखा

वाचस्पत्यम्

रेखा ||‍ स्त्री लिख—अच् लस्यरः । १ अल्पे, २ छले, ३ आभोगे, विन्दुपुञ्जकृते दण्डाकारे ४ चिह्नमेदे (दाडि) (कसा) विश्वः । ५ सुमेरुलङ्कयोर्मध्यस्थसूत्रगस्थलभेदे च ।


शब्दकल्पद्रुमः

रेखा || स्त्री (लिख्यते इति । लिख विलेखने + “षिद्भिदादिभ्योऽड् ।” ३ । ३ । १०४ । इति भिदादित्वात् अङ् । टाप् । रलयोरैक्यात् लस्य रत्वम् ।)
अल्पकम् । छद्म । आभोगः । उल्लेखः । इति विश्वः ॥ उल्लेखस्त्वत्र दण्डाकार- लिपिविशेषः । दाँडी इति कसी इति च भाषा । यथा, —
“यावती यावती रेखा ग्रहाणामष्टवर्गके । तावतीं द्बिगुणीकृत्य अष्टाभिः परिशोधयेत् ॥ अष्टोपरि भवेद्रेखा अष्टाभ्यन्तरबिन्दवः । यत्र रेखा न बिन्दुश्च तत् समं परिकीर्त्तितम् ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
शरीरस्थरेखया शुभाशुभलक्षणं यथा, —
“ललाटे यस्य दृश्यन्ते तिस्रो रेखाः समा हि ताः । सुखी पुत्त्रसमायुक्तः स षष्टिं जीवते नरः ॥ चत्वारिंशच्च वर्षाणि द्बिरेखादर्शनान्नरः । विंशत्यब्दमेकरेख आकर्णान्ताः शतायुषः ॥ आकर्णान्तरिता रेखास्तिस्रश्च स्युः शतायुषः । सप्तत्या मूर्द्ध्नि रेखा तु षष्ट्यायुस्तिसृभिर्भवेत् ॥ व्यक्ताव्यक्ताभी रेखाभिर्विंशत्यब्दायुरेव हि । चत्वारिंशच्च वर्षाणि हीनरेखस्तु जीवति ॥ भिन्नाभिश्चैव रेस्वाभिरपमृत्युर्नरस्य हि ॥ त्रिशूलं पट्टिशं वापि ललाटे यस्य दृश्यते । धनपुत्त्रसमायुक्तः स जीवेत् शरदः शतम् ॥ तर्जत्या मध्यमाङ्गुल्या आयूरेखा तु मध्यतः । सम्प्राप्ता या भवेद्रुद्र स जीवेत् शरदः शतम् ॥ कुलरेखा तु प्रथमा अङ्गुष्ठादनुवर्त्तते । मध्यमायाः करे रेखा आयूरेखा अतः परम् ॥ कनिष्ठिकां समाश्रित्य आयूरेखां समादिशेत् । अच्छिन्ना वाविभक्ता वा स जीवेच्छरदः शतम् ॥ यस्य पाणितले रेखा आयुस्तस्य प्रकाशयेत् । शतं वर्षाणि जीवेच्च भोगी रुद्र ! न संशयः ॥ कनिष्ठिकां समाश्रित्य मध्यमायामुपागता । षष्टिं वर्षायुषं कुर्य्यात् आयूरेखा तु मानवम् ॥” इति गारुडे ६३ अध्यायः ॥ * ॥
अपिच । “घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै । नृपतेः करतलगा मणिबन्धे समुत्थिता ॥ युगमीनाङ्कितकरो भवेत् सत्रप्रदो नरः । वज्राकारश्च धनिनां मत्स्यपुच्छनिभो बुधे ॥ शङ्खातपत्रशिविकागजपद्मोपमा नृपे । कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे ॥ दामाभाश्च गजाढ्यानां स्वस्तिकाभा नृपेश्वरे । चक्रासितोमरधनुःकुन्ताभा नृपतेः करे ॥ उदूखलाभा यज्ञाढ्ये वेदीभाश्चाग्निहोत्रिणि । वापीदेवकुलाभाश्च त्रिकोणाभाश्च धार्म्मिके ॥ अङ्गुष्ठमूलगा रेखाः पुत्त्राः सूक्ष्माश्च कारिकाः । प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी ॥ शतायुषञ्च कुरुते छिन्नया तरुतो भयम् । निःस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ॥” इति गारुडे ६६ अध्यायः ॥



Correction: