वाचस्पत्यम्
रेणुका || स्त्री रेणुना कायति कै—क । मरिचाकृतौ १ सुगन्धि- द्रव्ये अमरः “रेणुका कटुका षाके तिक्तानुष्णा लघुः कटुः । पित्तला दीपनी मेध्या पाचनी गर्भपातिनी । बलासवातवैलव्य तृट्कण्डू विषदाहनुत् पावप्र० । २ जमदग्निपत्न्यां ३ परशराममातरि च ।
शब्दकल्पद्रुमः
रेणुका || स्त्री (रेणुना कायतीति । कै + कः । टाप् ।)
मरिचाकृतिसुगन्धिद्रव्यविशेषः । तत्- पर्य्यायः । द्विजा २ हरेणुः ३ कौन्ती ४ कपिला ५ भस्मगन्धिनी ६ । इत्यमरः ॥ कान्ता ७ नन्दिनी ८ महिला ९ राजपुत्त्री १० हिमा ११ रेणुः १२ पाण्डुपुत्त्री १३ हरेणुका १४ सुपर्णी १५ शिशिरा १६ शान्ता १७ वृन्ता १८ क्वचित् पुस्तके वृत्ता इति च पाठः । धर्म्मिणी १९ कपिलोमा २० हैमवती २१ पाण्डुपत्नी २२ । अस्या गुणाः । कटुत्वम् । शीतत्वम् । खर्ज्जू- कण्डूति-तृष्णा-दाह-विषनाशित्वम् । मुखवैमल्य- कारित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । अथ रेणुका मरीचसदृशी । “रेणुका राजपुत्त्री च नन्दिनी कपिला द्विजा । भम्मगन्धा पाण्डुपुत्त्री स्मृता कौन्ती हरेणुका ॥ रेणुका कटुका पाके तिक्तानुष्णा कटुर्लघुः । पित्तला दीपनी मेध्या पाचनी गर्भपातिनी । वलास-वात-वैक्लव्य-तृट्-कण्डू-विष-दाह-नुत् ॥” इति भावप्रकाशः ॥ अन्यच्च । “रेणुका कफवातघ्नी दीपनी पित्तला लघुः ।” इति राजवल्लभः ॥ * ॥
(“हरेणू रेणुका कौन्ती ब्राह्मणी हेमगन्धिनी ॥” इति वैद्यकरत्नमालाम् ॥)
परशुराममाता । तद्विवरणं यथा, — मार्कण्डेय उवाच । “अथ काले व्यतीते तु जमदग्निर्म्महातपाः । विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम् ॥ भार्य्यार्थे प्रतिजग्राह रेणुकां लक्षणान्विताम् । सा तस्मात् सुषुवे पुत्त्रान् चतुरो वेदसम्मतान् ॥ रुषण्वन्तं सुषेणञ्च विश्वं विश्वावसुं तथा । पश्चात्तस्यां स्वयं जज्ञे भगवान् मधुसूदनः ॥ कार्त्तवीर्य्यवधायाशु शक्राद्यैः सकलैः सुरैः । याचितः पञ्चमः सोऽभूत्तेषां रामाह्वयस्तु यः ॥ भारावतारणार्थाय जातः परशुना सह । सहजः परशुस्तस्य तं जहाति कदापि न ॥ अयं निजपितामह्याश्चरुभुक्तिविपर्य्ययात् । ब्राह्मणः क्षत्त्रियाचारो रामोऽभूत् क्रूरकर्म्म- कृत् ॥ स वेदानखिलान् ज्ञात्वा धनुर्व्वेदांश्च सर्व्वतः । स्वतातात् कृतकृत्योऽभूद्वेदविद्याविशारदः ॥ एकदा तस्य जननी स्नानार्थं रेणुका गता । गङ्गातोये तथापश्यन्नाम्ना चित्ररथं नृपम् ॥ भार्य्याभिः सदृशीभिश्च जलक्रीडारतं शुभम् । सुमालिनं सुकान्तञ्च तरुणं चन्द्रसन्निभम् ॥ तथाविधं नृपं दृष्ट्वा संजातमदना भृशम् । रेणुका स्पृहयामास तस्मै राज्ञे च मैथुनम् ॥ स्पृहायुतायास्तस्यास्तु संक्लेदः समजायत । विचेतना तथा क्लिन्ना त्रस्ता सा स्वाश्रमं ययौ ॥ अबोधि जमदग्निस्तां रेणुकां विकृतां तथा । धिक् धिक् पापरतेत्येवं निनिन्द च समन्ततः ॥ ततः स्वतनयान् प्राह चतुरः प्रथमं मुनिः । रुषण्वत्प्रमुखान् सर्व्वान् एकैकं क्रमतो रुतम् ॥ छिन्ध्येनां पापनिरतां रेणुकां व्यभिचारिणीम् । ते तद्वचो नैव चक्रुर्मूढाश्चासन् जडा इव ॥ कुपितो जमदग्निस्तान् शशापेति विचेतनान् । भवध्वं यूयं नचिरात् जडा गोवद्बिगर्हिताः ॥ अथाजगाम चरमो जामदग्न्योऽतिवीर्य्यवान् । तञ्च रामं पिता प्राह पापिष्ठां छिन्धि मात- रम् ॥ स भ्रातॄंश्च तथाभूतान् दृष्ट्वा ज्ञानविवर्ज्जि- तान् । पित्रा शप्तान् महातेजाः प्रसूं परशुना- च्छिनत् ॥ रामेण रेणुकां छिन्नां दृष्ट्वा चाक्रोधनोऽभवत् । जमदग्निः प्रसन्नः सन्निति राममुवाच ह ॥ प्रीतोऽस्मि पुत्त्र भद्रं ते यस्त्वया मद्वचः कृतम् । तस्मादिष्टवरान् कामान् त्वं वै वरय साम्प्रतम् ॥ स तु रामो वरान् वव्रे मातुरुत्थानमादितः । वधस्यास्मरणं तस्या भ्रातॄणां शापमोचनम् ॥ मातृहत्याव्यपनयं युद्धे सर्व्वत्र वै जयम् । आयुः कल्पान्तपर्य्यन्तं क्रमाद्वै नृपसत्तम ! ॥ सर्व्वान् वरान् स प्रददौ जमदग्निर्म्महातपाः । सुप्तोत्थितेव जननी रेणुकाप्यभवत्तदा ॥ वधं न चापि सस्मार सहजप्रकृतिं तथा । युद्धे जयं चिरायुष्ट्वं लेभे रामस्तदैव हि ॥ मातृहत्याव्यपोहाय पिता तं वाक्यमब्रवीत् । न पुत्त्र वरदानेन मातृहत्यापगच्छति ॥ तस्मात्तं ब्रह्मकुण्डाय गच्छ स्नातुञ्च तज्जले । तत्र स्नात्वा मुक्तपापो नचिरात् पुनरेष्यसि । जगद्धिताय पुत्त्र त्वं ब्रह्मकुण्डं व्रज द्रुतम् ॥ स तस्य वचनं श्रुत्वा रामः परशुधृक् तदा । उपदेशात् पितुर्यातो ब्रह्मकुण्डं वृषोदकम् ॥ तत्र स्नानं स विधिवत्कृत्वा धौतपरश्वधः । शरीरान्निःसृतां सम्यक् मातृहत्यां व्यलोकयत् ॥ जातसंप्रत्ययः सोऽथ तीर्थमासाद्य तं वरम् । वीथिं परशुना कृत्वा ब्रह्मपुत्त्रमबाहयत् ॥ ब्रह्मकुण्डात् सुतः सोऽथ कासारे लोहिताह्वये । कैलासोपत्यकायास्तु न्यपतद्ब्रह्मणः सुतः ॥ तस्यापि सरसस्तीरं समुत्थाय महाबलः । कुठारेण दिशं पूर्ब्बामनयद्ब्रह्मणः सुतम् ॥ ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य च । कामरूपान्तरं पीठमवाहयदमुं हरिः ॥ तस्य नाम विधिश्चक्रे स्वयं लोहितगङ्गकम् । लौहित्यात् सरसो जातो लौहित्याख्यस्ततो- ऽभवत् ॥ स कामरूपमखिलं पीठमाप्लाव्य वारिणा । गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम् ॥ प्रागेव दिव्ययमुनां संत्यक्त्वा ब्रह्मणः सुतः । पुनः पतति लौहित्ये गत्वा द्वादशयोजनम् ॥ चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः । स्नाति लौहित्यतोयेषु स याति ब्रह्मणः पदम् ॥ चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः । लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात् ॥ इति ते कथितं राजन् यदर्थं मातरं पुरा । हन्ति धीरो जामदग्न्यो यस्माद्बा क्रूरकर्म्मकृत् ॥ इदन्तु महदाख्यानं यः शृणोति दिने दिने । स दीर्घायुः प्रमुदितो धनवानभिजायते ॥” इति कालिकापुराणे ८५ अध्यायः ॥