वाचस्पत्यम्
रेवत || पु० रेव—अतच् । १ जम्बीरे जटा० २ आरग्वधे शब्दचि० ३ बलरामश्वशुरे राजभेदे हरिवं० ।
शब्दकल्पद्रुमः
रेवतः || पुं, जम्बीरः । इति जटाधरः ॥ (यथा, मुश्रुते । ४ । ५ । “पित्तप्रबले द्राक्षारेवतकट्फलपयस्यामधुक- चन्दनकाश्मर्य्यकषायं शर्करामधुमधुरं पाय- येत् ॥”)
आरग्वधवृक्षः । इति शब्दरत्नावली ॥ राजविशेषः । स तु रेवतीपिता । बलरामश्वशु- रश्च । इति महाभारतम् ॥ (अयं हि आनर्त्तपुत्त्रः शर्य्यातिपौत्त्रः । स खलु स्वपुत्त्र्या रेवत्या वरं प्रष्टुकामस्तया सह ब्रह्मलोकं गतवान् आज्ञप्तश्च ब्रह्मणा बलदेवाय कन्यां दत्तवान् । एतद्विवरणं देवीभागते ७ स्कन्धे ७ । ८ अध्यायतो द्रष्ट- व्यम् ॥)