संस्कृत-शब्दकोशः

रेवति रेवतीभव

रेवती

वाचस्पत्यम्

रेवती ||‍ स्त्री रेवतस्यापत्यमण् रेवत्यादीति निर्देशात न वृद्धिः । १ रवतराजकन्यायां बलदेवपत्न्याम् । रेव—अतच् गौ० ङीष् । आश्वन्यवधितः सप्तविंशतिसंख्याते २ नक्षत्रे, ३ तत्- संख्यायां, ४ मातृकाभेदे मेदि० । ५ स्त्रीगव्याम अजयपा० ६ नदीभेदे, ७ दुर्गायाञ्च देवीपु० । ८ रेवतीपदघटिताया मृचि च एतस्यैव रेवतीषु वारवन्तीयम्” श्रुतिः । ९ पञ्चममनुपत्न्याम् ।


शब्दकल्पद्रुमः

रेवती || स्त्री (रेवतस्यापत्यं स्त्री । रेवत + अण् । न वृद्धिः । ङीष् ।)
बलदेवपत्नी । नक्षत्रभेदः । मातृकाभेदः । इति मेदिनी ॥ स्त्रीगवी । इत्य- जयपालः ॥ दुर्गा । यथा, “रेवा तु नर्म्मदा देवी नदी वा रवती मता । अतिखण्डनबन्धा वा लोके देवी प्रकीर्त्तिता ॥” इति देवीपुराणे ४५ अध्यायः ॥ * ॥
रेवतीनक्षत्रन्तु अश्विन्यादिसप्तविंशतिनक्षत्रान्त- र्गतशेषनक्षत्रम् । तस्य रूपं मत्स्याकृति द्वात्रिं- शत्तारात्मकम् । तस्याधिष्ठातृदेवता पूषाख्यः सूर्य्यः । यथा, —
“दन्तसंख्यभवने झसाकृता- वन्तभे लसदनन्तमध्यगे । कोमलाङ्गि मिथुनोदयात् प्रिये कालखानलकलाः प्रियेऽचलन् ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥
तत्र जातफलं यथा, —
“चारुशीलविभवो जितेन्द्रियः सत्कुलः स्वभवनैकमानसः । मानवो ननु भवेन्महीपती रेवती भवति यस्य जन्मभम् ॥” इति कोष्ठीप्रदीपः ॥ * ॥
बालग्रहविशेषः । तज्जुष्टस्य चिकित्सा यथा, —
“अश्वगन्धाजशृङ्गी च शारिवाथ पुनर्नवा । सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ॥” अजशृङ्गी मेढाशृङ्गी । सहा सेवतीपुष्प- जातिः । “तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्जरसे तथा । पलङ्कषायां नलदे तथा गौरकदम्बके ॥” सर्जरसः रालः । पलङ्कषा गुग्गुलुः । नलदं लामज्जकमुशीरवत् पीतच्छवि । गौरकदम्बको हारिद्रकः । हरदुया कदम्ब इति लोके । “धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च । काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबे- च्छिशुः ॥” अश्वकर्णः सांखु इति लोके । “कुलत्थाः शङ्खचूर्णञ्च प्रदेहः साखगन्धिकः । गृध्रोलूकपुरीषाणि यवान् यवफलो घृतम् । सन्ध्ययोरुभयोः कार्य्यमेतदुद्धूपनं शिशोः ॥” यवफलो वंशाङ्कुरः । “युक्ताः सुमनसो लाजाः पयः शाल्योदनं दधि । वलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ॥” गोतीर्थे गोष्ठे । “स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक् ॥ नानाशस्त्रधरा देवी चित्रमाल्यानुलेपना । चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ॥ उपासते यां सततं देव्यो विविधभूषणाः । लम्बा कराला विनता तथैव बहुपुत्त्रिका । रेवती शुष्कनासा च तुभ्यं देवी प्रसीदतु ॥” इति भावप्रकाशः ॥ * ॥
बलदेवपत्न्या विवरणं यथा, —
“रेवस्य रैवतः पुत्त्रः ककुद्मान्नाम धार्म्मिकः । श्रेष्ठः पुत्त्रशतस्यासीत्तस्यां पुर्य्यां नृपोऽभवत् ॥ स कन्यासहितः प्रायाद्रैवतो ब्रह्मणोऽन्तिकम् ॥ न जरा क्षुत् पिपासा वा न मृत्युस्तत्र कर्हि- चित् । ऋतुचक्रञ्च भवति ब्रह्मलोके द्बिजोत्तमाः ॥ रैवतस्य गतस्याथ सा पुरी राक्षसैर्हृता । तस्य पुत्त्रशतं यच्च त्यक्त्वा तामगमद्दिशः ॥ तस्य वंशे तु ये तत्र स्वर्याता इति विश्रुताः । क्षत्त्रिया ह्यभवन् विप्रा दिक्षु सर्व्वासु धार्म्मिकाः ॥ गते बहुयुगे काले आजगामाथ रैवतः । मुहूर्त्तमेकं मत्वासौ ददर्श यादवैर्वृताम् ॥ कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । भोजवृष्ण्यन्धकैर्गुप्तां वासुदेवपुरोगमैः ॥ गत्वा तु रैवतः सम्यग्बलभद्राय रेवतीम् । प्रादाद्गुरुतरां तान्तु बलदेवो हलेन वै । समानां लघुतां नीत्वा उवाह स प्रहर्षतः ॥ दत्त्वा जगाम शिखरं मेरोस्तपसि रैवतः । रेमे रामोऽपि धर्म्मात्मा रेवत्या सहितः सुखी ॥” इति वह्निपुराणम् ॥ * ॥
(ब्रह्मणो वाक्येनैव इयं रेवतेन बलदेवाय प्रदत्ता । एतद्बिवरणन्तु देवीभागवते ७ स्कन्धे ८ अध्याये द्रष्टव्यम् ॥)
रैवतमनुमाता । तद्- विवरणं यथा, — मार्कण्डेय उवाच । “पञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः । तस्योत्पत्तिं विस्तरञ्च शृणुष्व कथयामि ते ॥ ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः । तस्यापुत्त्रस्य पुत्त्रोऽभूत् रेवत्यन्ते महात्मनः ॥ स तस्य विधिवच्चक्रे जातकर्म्मादिकाः क्रियाः । तथोपनयनादींश्च स चाशीलोऽभवन्मुने ॥ यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः । दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः ॥ माता चास्य परामार्त्तिं कुष्ठरोगादिपीडिता । जगाम स पिता चास्य चिन्तयामास दुःखितः ॥ किमेतदिति सोऽप्यस्य पुत्त्रोऽत्यन्तसुदुर्म्मतिः । जग्राह भार्य्यामन्यस्य मुनिपुत्त्रस्य मन्दधीः ॥ ततो विषण्णो मनसा ऋतवागिदमुक्तवान् । अपुत्त्रता मनुष्याणां श्रेयसे न कुपुत्त्रता ॥ कुपुत्त्रो हृदयायासं सर्व्वदा कुरुते पितुः । मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः ॥ सुहृदां नोपकाराय पितॄणां नापि तृप्तये । पित्रोर्दुःखाय धिक् जन्म तस्य दुष्कृतकर्म्मणः ॥ धन्यास्ते तनया येषां सर्व्वलोकाभिसम्मताः । परोपकारिणः शान्ताः साधुकर्म्मण्यनुव्रताः ॥ अनिर्वृत्तं तथा मूर्खं परलोकपराङ्मुखम् । नरकाय न सद्गत्यै कुपुत्त्रालम्बि यन्मनः ॥ करोति सुहृदां दैन्यमहितानां तथा मुदम् । अकाले च जरां पित्रोः कुपुत्त्रः कुरुते हि वै ॥ मार्कण्डेय उवाच । एवं सोऽत्यन्तदुष्टस्य पुत्त्रस्य चरितैर्मुनिः । दह्यमानमनोवृत्तिर्वृद्धं गर्गमपृच्छत ॥ ऋषिरुवाच । सुव्रतेन पुरा वेदा गृहीता विधिवन्मया । समाप्य वेदान् विधिवत् कृतो दारपरिग्रहः ॥ सदारेण यथा कार्य्याः श्रौताः स्मार्त्तास्तथा क्रियाः । नानुन्यूनाः कृताः काश्चिद्यावदद्य महामुने ॥ गर्भाधानविधानेन न काममनुरुध्यता । पुत्त्रार्थं जनितश्चायं पुन्नाम्नो विभ्यता मुने ॥ सोऽयं किमात्मदोषेण मम दोषेण वा मुने । अस्मद्दुःखवहो जातो दौःशील्याद्बन्धुशोकदः ॥ गर्ग उवाच । रेवत्यन्ते मुनिश्रेष्ठ जातोऽयं तनयस्तव । तेन दुःखाय ते काले दुष्टे यस्मादजायत ॥ न तेऽपचारो नैवास्य मातुर्नापि कुलस्य ते । तस्य दौःशील्यहेतुत्वं रेवत्यन्तमुपागतम् ॥ ऋतवागुवाच यस्मान्ममैकपुत्त्रस्य रेवत्यन्तसमुद्भवम् । दौःशील्यमेतत् सा तस्मात् पततामाशु रेवती ॥ मार्कण्डेय उवाच । तेनैव व्याहृते शापे रेवत्यृक्षं पपात ह । पश्यतः सर्व्वलोकस्य विस्मयाविष्टचेतसः ॥ रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः । भासयामास सहसा वनकन्दरनिर्झरान् ॥ कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् । अतीवरम्यः सर्व्वस्यां पृथिव्यां पृथिवीधरः ॥ तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनीसरः । ततो जज्ञे तदा कन्या रूपेणातीव शोभना ॥ रेवतोकान्तिसंभूतां तां दृष्ट्वा प्रमुचो मुनिः । तस्या नाम चकारेत्थं रेवतीति हि भागुरे ॥ पोषयामास चैवैनां स्वाश्रमाभ्याससम्भवाम् । प्रमुचः स महाभागस्तस्मिन्नेव महाचले ॥ तान्तु यौवनिनीं दृष्ट्वा कन्यकां रूपशालिनीम् । स मुनिश्चिन्तयामास कोऽस्या भर्त्ता भवेदिति ॥ एवं चिन्तयतः कालो जगाम सुमहात्मनः । न चाससाद सदृशं वरं तस्या महामुनिः ॥ ततस्तस्या वरं प्रष्टुमग्निं स प्रमुचो मुनिः । विवेश वह्निशालां वै पृष्टस्तं प्राह हव्यभुक् ॥ महाबलो महावीर्य्यः प्रियवाक् धर्म्मवत्सलः । दुर्द्दमो नाम भविता भर्त्ता ह्यस्या महीपतिः ॥ मार्कण्डेय उवाच । अनन्तरञ्च मृगयाप्रसङ्गेनागतो मुने । तस्याश्रमपदं धीमान् दुर्द्दमः स नराधिपः ॥ प्रियव्रतान्वयभवो महाबलपराक्रमः । पुत्त्रो विक्रमशीलस्य कान्दिनीजठरोद्भवः ॥ स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः । अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान् ॥ राजोवाच । क्व गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः । तं प्रणन्तुमिहेच्छामि तत्त्वं प्रब्रूहि शोभने ॥ मार्कण्डेय उवाच । अग्निशालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषि- तम् । प्रियेत्यामन्त्रणञ्चैव निश्चक्राम त्वरान्वितः ॥ स ददर्श महात्मानं राजानं दुर्द्दमं मुनिः । नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः ॥ तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गोतमम् । गोतमानीयतां शीघ्रमर्घोऽस्य जगतां पतेः ॥ एष तावदयं भूपश्चिरकालादुपागतः । जामाता च विशेषेण योग्योऽर्घोऽस्य मतं मम ॥ मार्कण्डेय उवाच । ततः स चिन्तयामास राजा जामातृकारणम् । विवेद न च तन्मौनी जगृहेऽर्घञ्च तं नृपः ॥ तमासनगतं विप्र गृहीतार्घं महामुनिः । प्रसृतं प्राह राजेन्द्रमपि ते कुशलं पुरे ॥ कोषे बलेऽथ मित्रेषु भृत्यामात्येषु चेश्वर । तथात्मनि महाबाहो यत्र सर्व्वं प्रतिष्ठितम् ॥ पत्नी च ते कुशलिनी यत एवात्र तिष्ठति । पृच्छाम्यस्यास्ततो नाहं कुशलिन्योऽपरास्तव ॥ राजोवाच । त्वत्प्रसादादकुशलं न क्वचिन्मुनिसत्तम । जातकौतूहलश्चास्मि मम भार्य्यात्र का मुने ॥ ऋषिरुवाच । रेवती तु महाभागा त्रैलोक्ये सापि सुन्दरी । तव भार्य्या वरारोहा मानवेन्द्र न वेत्सि किम् ॥ राजोवाच । सुभद्रां शान्ततनयां कावेरीतनयां विभो । शूरात्मजां सुजाताञ्च कदम्बाञ्च वरूथजाम् ॥ विपाठां नन्दिनीञ्चैव वेद्मि भार्य्या गृहे हि याः । तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि का त्वियम् ॥ ऋषिरुवाच । प्रियेति साम्पतं येयं त्वयोक्ता वरवर्णिनी । किं विस्मृतं ते भूपाल श्लाघ्येयं गृहिणी तव ॥ राजोवाच । सत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने । नात्र कोपं भवान् कर्त्तुमर्हत्यस्मासु याचितः ॥ ऋषिरुवाच । सत्यं ब्रवीषि भूपाल न भावस्तव दूषितः । व्याजहार भवानेवं वह्निना नृप नोदितः ॥ मया पृष्टो हुतवहः कोऽस्या भर्त्तेति पार्थिव । भविता तेन चाप्युक्तो भवानेवाद्य चागतः ॥ तद्गृह्यतां मया दत्ता कन्या तुभ्यं नराधिप । प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम् ॥ श्रीमार्कण्डेय उवाच । ततश्च सोऽभवन्मौनी तेनोक्तः पृथिवीपतिः । ऋषिस्तथोद्यतः कर्त्तुं तस्या वैवाहिकं विधिम् ॥ समुद्यतञ्च पितरं विवाहाय महामुने । उवाच कन्या सा किञ्चित् प्रश्रयावनतानना ॥ यदि मे प्रीतिमांस्तात प्रसादं कर्त्तुमिच्छसि । रेवत्यृक्षे विवाहं मे तत् करोतु प्रसादितः ॥ ऋषिरुवाच । रेवत्यृक्षं न वै भद्रे चन्द्रयोगे दिवि स्थितम् । अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि ते ॥ कन्योवाच । तात तेन विना कालो विकलः प्रतिभाति मे । विवाहो विकले काले मद्विधायाः कथं भवेत् ॥ ऋषिरुवाच । ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति । चकार कोपं क्रोधेन तेनर्क्षं तन्निपातितम् ॥ मया चास्मै प्रतिज्ञाता भार्य्येति मदिरेक्षणे । न चेच्छसि विवाहं त्वं संकटं नः समागतम् ॥ कन्योवाच । ऋतवाक् स मुनिस्तात किं मे कस्तप्तवांस्तपः । न त्वया समता तेन ब्रह्मबन्धोः सुतास्मि किम् ॥ ऋषिरुवाच । ब्रह्मबन्धोः सुता न त्वं बाले नैवातपस्विनः । सुता त्वं मम यो देवान् कर्त्तुमन्यान् समुत्सहे ॥ कन्योवाच । तपस्वी यदि मे तातस्तत् किमृक्षमिदं दिवि । समारोप्य विवाहो मे नात्रर्क्षे क्रियते पितः ॥ ऋषिरुवाच । एवं भवतु भद्रं ते भद्रे प्रीतिमती भव । आरोपयामीन्दुमार्गं रेवत्यृक्षं कृते तव ॥ श्रीमार्कण्डेय उवाच । ततस्तपःप्रभावेन रेवत्यृक्षं महामुनिः । यथापूर्ब्बं तथा चक्रे सोमयोगे द्बिजोत्तमः ॥ विहाहञ्चैव दुहितुर्विधिवन्मन्त्रयोगजम् । निष्पाद्य प्रीतिमान् भूयो जामातरमथाब्रवीत् ॥ ऋषिरुवाच । औद्वाहिकं ते भूपाल कथ्यतां किं ददाम्यहम् । दुर्लभ्यमपि दास्यामि ममाप्रतिहतं तपः ॥ राजोवाच मनोः स्वायम्भुवस्याहमुत्पपन्नः सन्ततौ मुने । मन्वन्तराधिपं पुत्त्रं त्वत्प्रसादाद्वृणोम्यहम् ॥ मुनिरुवाच । भविष्यत्येष ते कामो मनुस्तत्तनयो महान् । सकलां भोक्ष्यते भूमिं धर्म्मविच्च भविष्यति ॥ श्रीमार्कण्डेय उवाच । तामादाय ततो भूपस्तदैव नगरं ययौ । तस्याञ्चाजायत सुतो रेवत्यां रैवतो मनुः ॥ समेतः सकलैधर्म्मैर्मानवैरपराजिंतः । विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित् ॥” इति मार्कण्डेयपुराणे रैवतमन्वन्तरं समाप्तम् ॥ (गौः । इति निघण्टुटीकायां देवराजयज्वा । १ । १० । १६ ॥)



Correction: