संस्कृत-शब्दकोशः

रैत्य रैवतक

रैवत

वाचस्पत्यम्

रैवत ||‍ पु० रेवत्या नद्या अदूरो देशः अञ् । द्वारिकासमी- पस्थे १ पर्वतभेदे २ स्वर्णालुवृक्षे, ३ शिये मेदि० । ४ दैत्यभेदे धरणिः । रेवर्त्या भवः अण् । ५ चतुर्दशसु मनुषु पञ्चमे मनुभेदे । श्चरे च ।


शब्दकल्पद्रुमः

रैवतः || पुं, स्वर्णालुवृक्षः । (यथा, गारुडे २०८ अः । “चतुरङ्गुलसम्पाको व्याधिघाताभिसंज्ञकः । विद्यादारग्वधं राजवृक्षं रैवतर्संज्ञकम् ॥”)
शैलभेदः । (अत्रैवार्ज्जुनः सुभद्रां हृतवान् । यथा, महाभारते । २२१ । ६ — ८ । “सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्यैव हि रैवतम् । दैवतानि च सर्व्वाणि ब्राह्मणान् स्वस्ति वाच्य च ॥ प्रदक्षिणं गिरेः कृत्वा प्रययौ द्बारकां प्रति ॥ तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् । सुभद्रां चारुसर्व्वाङ्गीं कामबाणप्रपीडितः ॥ ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् । रथेन काञ्चनाङ्गेन प्रययौ स्वपुरं प्रति ॥”)
शङ्करः । इति मेदिनी । ते ४५ ॥ दैत्यविशेषः । इति धरणिः ॥ (स तु बालग्रहाणामन्यतमः । यथा, महाभारते । ३ । २२९ । २९ । “अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः । सोऽपि बालान् महाघोरो वाघते वै महा- ग्रहः ॥” रेवत्यां भवः । रेवती + अण् ।)
वर्त्तमान- कल्पीयः पञ्चमो मनुः । स तु रेवतीगर्भे दुर्दम- राजपुत्त्रः । अस्मिन् मन्वन्तरे विकुण्ठोऽव- तारः । विभुरिन्द्रः । भूतरयादयो देवाः । हिरण्यरोमादयः सप्तर्षयः । बलिबिन्धादय- स्तन्मनुसुताः । इति श्रीभागवतम् ॥ तद्बिवरणं यथा, —
“पञ्चमस्य मनोस्तद्वत् रैवतस्यान्तर शृणु । देववाहुः सुबाहुश्च पर्य्यण्यः सोमपो मुनिः ॥ हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः । देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः ॥ अरुणस्तत्त्वदर्शी च वित्तवान् हव्यपः कपिः । मुक्तो निरुत्सुकः सत्वो निर्म्मोहोऽथ प्रकाशकः । धर्म्मवीर्य्यबलोपेता दशैते रैवतात्मजाः ॥ भृगुः सुधामा विरजः सहिष्णुर्नाद एव च । विवस्वानतिनामा च षष्टिसप्तर्षयोऽपरे ॥” इति मात्स्ये ९ अध्यायः ॥ * ॥
मार्कण्डेयपुराणोक्तरैवतमनुविवरणन्तु रेवती- शब्दे द्रष्टव्यम् ॥ (रुद्राणामन्यतमः । यथा, मात्स्ये । ५ । २९ । “अजैकपादहिब्रघ्नो विरूपाक्षोऽथ रैवतः ॥” मेघः । इति निघण्टुः । १ । १० ॥ “रेवत्यो गावः ‘पशवो वै रेवतीः ।’ इति श्रुतेः ‘तस्येदम् ।’ ४ । ३ । १२० । इत्यण् । मेघो हि सर्व्वत्र वर्षति यवसं पानीयं च जनयित्वा तदीयो भवति पर्व्वतस्तद्वत्तया । यद्वा, रयि- रस्यास्तीति मतुपि ‘रयेर्म्मतौ बहुलम् ।’ ६ । १ । ३४ । इति सम्प्रसारणम् । ‘संज्ञायाम् ।’ ८ । २ । ११ । इति वत्वम् । सर्व्वस्य धनस्येशितृ- त्वात् रेवान् इन्द्रः मघवेति हि तस्य नाम तदीयो रैवतः पूर्ब्बवत् तदीयत्वं द्रष्टव्यम् ॥” इति तत्र देवराजयज्वा ॥ * ॥
सोमलता- विशेषः । यथा, सुश्रुते । ४ । २९ । “अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः ॥” ऋषिविशेषः । यथा, महाभारते । २ । ५ । ११ । “नारदः सुमहातेजा ऋषिभिः सहितस्तदा । पारिजातेन राजेन्द्र रैवतेन च धीमता ॥” घनवति, त्रि । यथा, ऋग्वेदे । ५ । ६० । ४ । “वरा इवेद्रैवतासो हिरण्यै- रभिस्वधाभिस्तन्वः पिपिश्रे ।” “वैरतासो धनवन्तः ।” इति तद्भाष्ये सायणः ॥)



Correction: