वाचस्पत्यम्
रैवतक || पु० रैवतएव स्वार्थे क । १ रैवतपर्वते हेमच० २ पारेवतवृक्षे न० राजनि० ।
शब्दकल्पद्रुमः
रैवतकं || क्ली (रेवतकमेव । स्वार्थे अण् ।)
पारे वतवृक्षः । इति राजनिर्घण्टः ॥ (पारेवत- शब्देऽस्य गुणादिकं ज्ञेयम् ॥)
शब्दकल्पद्रुमः
रैवतकः || पुं, (रैवत एव । स्वार्थे कन् ।)
रैवत- पर्व्वतः । तत्पर्य्यायः । उज्जयन्तः २ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । २२० । १ । “ततः कतिपयाहस्य तस्मिन् रैवतके गिरौ । वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम ! ॥”)
तस्य नामकारणं रेवतीशब्दे द्रष्टव्यम् ॥