संस्कृत-शब्दकोशः

रोदसी रोदस्यौ

रोदस्

वाचस्पत्यम्

रोदस् ||‍ न० रुद—असुन् । १ स्वर्गे २ भूमौ च अमरः । गौरा० ङीष् रोदसीत्यप्यत्र । २ द्यावाभूम्योः स्त्री द्वि० व० अमरः । ३ पृथिव्या निघण्टुः ।


शब्दकल्पद्रुमः

रोदः || [स्] क्ली (रुद् + असुन् ।)
स्वर्गः । भूमिः । इति मेदिनी । से, ३३ ॥ (यथा, ऋग्वेदे । ९ । २२ । ५ । “एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः ॥”)



Correction: