संस्कृत-शब्दकोशः

रोधवक्रा रोधोवक्रा

रोधस्

वाचस्पत्यम्

रोधस् ||‍ न० सध—असुन् । गद्यादिकूले अमर ।


शब्दकल्पद्रुमः

रोधः || [स्] क्ली, (रुणद्धि वार्य्यादिकमिति । रुध + “सर्व्वधातुभ्योऽसुन् ।” उणा० ४ । १८८ । इति असुन् ।)
नदीतीरम् । इत्यमरः । १ । १० । ७ ॥ (यथा, रघुः । ५ । ४२ । “स नर्म्मदारोधसि सीकरार्द्रै- र्मरुद्भिरानर्त्तितनक्तमाले । निवेशयामास विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यम् ॥”)



Correction: