वाचस्पत्यम्
रोध्रपुष्पिणी || स्त्री रोध्र इव पुष्प्यति पुष्य विकाशे णिनि । धातकीदृक्षे (धाइफुल) राजनि० ।
शब्दकल्पद्रुमः
रोध्रपुष्पिणी || स्त्री (रोध्र इव पुष्प्यतीति । पुष्प + णिनि । ङीप् ।) धातकीवृक्षः । इति राज- निर्घण्टः ॥