संस्कृत-शब्दकोशः

रोध्रपुष्पिणी रोपण

रोप

वाचस्पत्यम्

रोप ||‍ पु० रुह—णिच्—हस्य पः कर्मणि अच् । १ वाणे अमरः भावे अच् । २ रोपणे वान्यादेर्जननाय ३ अङ्कुरारोपणे च मेदि० ४ छिद्रे न० हमच० ।


शब्दकल्पद्रुमः

रोपः || पुं, (रुप्यतेऽनेनेति । रुप विमोहे + घञ् ।)
बाणः । इत्यमरः ॥ (रुह + णिच् + घञ् ।)
रोपणम् । इति मेदिनी । पे, २ ॥ (यथा, महा- भारते । १३ । ५८ । २४ । “एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ॥”)
छिद्रे, क्ली । इति हेमचन्द्रः ॥



Correction: