संस्कृत-शब्दकोशः

रोपण रोपणीवर्ति

रोपणचूर्णं

शब्दकल्पद्रुमः

रोपणचूर्णं || क्ली (रोपणस्य चूर्णम् ।)
नयनाञ्जन- विशेषः । यथा, भावप्रकाशे । अथ रोपणचूर्णम् । “शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा । गृह्णीयात् तज्जलं सर्व्वं त्यजेच्चूर्णमधोगतम् ॥ शुष्कं तच्च जलं सर्व्वं पर्पटीसन्निभं भवेत् । विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः ॥ कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत् । अञ्जयेन्नयनं तेन सर्व्वदोषोपशान्तये ॥ समस्तनेत्ररोगघ्नं चूर्णमेतन्न संशयः ॥”



Correction: