शब्दकल्पद्रुमः
रोपणीवर्त्तिः || स्त्री नेत्राञ्जनभेदः । यथा । अथ रोपणीवर्त्तिः । “अशीतिस्तिलपुष्पाणि षष्टिः पिप्पलितण्डुलाः । जातीपुष्पाणि पञ्चाशन्मरिचानि च षोडश ॥ सूक्ष्मं पिष्ट्वाम्बुना वर्त्तिः कृता कुसुमिकाभिधा । तिमिरार्ज्जुनशुक्राणां नाशिनी मांसवृद्धिनुत् । एतस्या अञ्जने प्रोक्ता मात्रा सार्द्धहरेणुका ॥” कुसुमिकावटी रोपणी । इति भावप्रकाशः ॥