वाचस्पत्यम्
रोमकपत्तन || न० कर्म० । (रुम) नगरभेदे सू० सि० ।
शब्दकल्पद्रुमः
रोमकपत्तनं || क्ली (रोमकं पत्तनमिति कर्म्म- धारयः ।)
देशविशेषः । रुम् इति पारस्य- भाषा । यथा, —
“लङ्काकुमध्ये यमकोटिरस्याः प्राक् पश्चिमे रोमकपत्तनश्च । अधस्ततः सिद्धपुरं सुमेरुः सौम्येऽथ याम्ये वडवानलश्च । कुवृत्तपादान्तरितानि तानि स्थानानि षड्गोलविदो वदन्ति ॥” इति सिद्धान्तशिरोमणौ गोलाध्यायः ॥