वाचस्पत्यम्
रोह || पु० रुह—अच् । १ अङ्कुरे हेमच० २ रोहणकर्त्तरि त्रि० ।
शब्दकल्पद्रुमः
रोहः || पुं, (रोहतीति । रुह् + अच् ।)
अङ्कुरः । इति हेमचन्द्रः ॥ (यथा, महाभारते । १२ । १२० । ३८ । “अग्निः स्तोको वर्द्धतेऽप्याज्यसिक्तो बीजञ्चैकं रोहसाहस्रमेति । आयव्ययौ विपुलौ सन्निशाम्य तस्मादल्पं नावमन्येत वित्तम् ॥” रोहणीये, त्रि । यथा, वाजसनेयसंहिता- याम् । १३ । ५१ । “तेन रोहमायन्नुप मेध्यासः ।” “रोहं रोहणीय स्वर्गम् ।” इति तद्भाष्ये मही- घरः ॥)