संस्कृत-शब्दकोशः

रोहक रोहन्त

रोहण

वाचस्पत्यम्

रोहण ||‍ पु० रुह्यतेऽसौ रुह ल्युट् । १ पर्वतभेदे जटा० । भावे ल्युट् । २ प्रादुर्भावे न० । करणे ल्युट् ३ शुक्रे राजनि०


शब्दकल्पद्रुमः

रोहणं || क्ली (रोहत्यनेनेति । रुह् + करणे ल्युट् ।)
शुक्रम् । इति राजनिर्घण्टः ॥ जन्म । प्रादुर्भावः । इति रुहधातोर्भावेऽनट्प्रत्ययेन निष्पन्नम् ॥


शब्दकल्पद्रुमः

रोहणः || पुं, (रोहत्यस्मिन्निति । रुह् + अधि- करणे ल्युट् ।)
पर्व्वतविशेषः । तत्पर्य्यायः । विदूराद्रिः २ । इति जटाधरः ॥ (यथा, राजेन्द्रकर्णपूरे । ५२ । “अपारपुलिनस्थलीभुवि हिमालये मालये निकामविकटोन्नते दुरधिरोहणे रोहणे । महत्यमरभूधरे गहनकन्दरे मन्दरे भ्रमन्ति न पतन्त्यहो परिणता भवत्कीर्त्तयः ॥”)



Correction: