संस्कृत-शब्दकोशः

रोहिणिका रोहिणीपति

रोहिणी

वाचस्पत्यम्

रोहिणी ||‍ स्त्री रुह—इनन् गौरा० ङीष् । १ स्त्रीगव्याम् अमरः अश्विन्यवधिके चतुर्थे २ नक्षत्रे ज्यो० ३ वसुदेवपत्न्यां- बलभद्रमातरि, ४ विद्युति, ५ कटुतुम्ब्व्यां, ६ सोप्रवलके च मेदि० । रोहित + स्त्रियां ङीप् तस्य नत्वे णत्वम् । ७ रक्तवर्णयत्यां स्त्रियाम् । सा च ८ हरितक्याम्, ९ काश्म- र्य्याम्, १० मञ्जिष्ठायाश्च राजनि० । ११ सुरभिकन्यायां कालिसापु० “अष्टवर्षा भवेत् गौरी नववर्षा च रोहिणी” स्मृत्युक्तायां नववर्षायां १२ कन्यायां १३ गलरोगभेदे भावप्र० “रोहिणीनामकगलरोगाणां नामानि संख्याञ्चाह “रो- हिणी पञ्चषा प्रोक्ता कण्ठशालूक एव च । अधिजि- ह्वश्च वलयोऽलासनामैकवृन्दकः । ततो वृन्दः शतघ्नी च गिलायुः कण्ठविढ्रधिः । गलौघः प्रस्वरघ्नश्च मांसतालस्त- षैव च । विदाही कण्ठदेशे तु रोगा ह्याष्ठाविति स्मृताः । तत्र पञ्चानामपि रोहिणीनां सामान्यसंप्राप्तिमाह “गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च तथैव शोणितम् । गलोपसंरोधकरैस्तधाङ्कुरैर्निहन्त्य सून् व्याधिरियं हि रोहिणी” । अनिलः मूर्च्छितः पवृद्धः कफपित्तौ च मूर्च्छितौ वित्तं वा मूर्च्छितं कफो वा मूर्च्छितः न तु त्रयोऽपि मूर्च्छिताः” पृथग्दोष- जाया अविवक्ष्यमाणत्वात् । तस्या वातजायालक्षणमाह “किह्वासमन्ताद्भृशवेदनास्तु मांसाङ्गुराः कण्ठविरोधनाः स्युः । सा रोहिणी वातकृता प्रदिष्ठा वातात्यकोपद्रव गाढयुक्ता” । जिह्वासमन्तात् जिह्वायाः सर्वतः । “वाता- त्मकोपद्रवगाढयुक्ता स्तम्भादिभिरतिशयेन युक्ता । पित्त- जामाह “क्षिप्रोद्गमा क्षिप्रयिदाहपाका तीव्रज्वरा पित्त- निमित्तजाता” । श्लेष्मजामाह “स्रोतोनिरोधिन्यपि मन्दपाका गुर्वी स्थिरा सा कफसम्भवा तु । स्रोतोऽत्र कण्ठस्रोतः । सन्निपातजामाह “गम्भीरपाकिम्यनिवार्थ्य- वीर्य्या त्रिदोषलिङ्गा त्रिभवा भवेत् सा” । रक्तजामाह स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरा- त्मिका तु” । रक्तजेतरासंहारकत्वावधिमाह “सद्यस्त्रि- दोषजा हन्ति त्र्यहात् कफसमुद्धवा । पञ्चाहात् पित्त- सम्भूता सप्ताहात् पवनोत्थिता” ।


शब्दकल्पद्रुमः

रोहिणी || स्त्री (रुह् + इनन् । गौरादित्वात् ङीष् ।)
स्त्रीगवी । इत्यमरः ॥ (यथा, माघे । १२ । ४० । “प्रीत्या नियुक्ताल्लिहतीः स्तनन्धया- न्निगृह्य पारीमुभयेन जानुनोः । वर्द्धिष्णुधाराध्वनि रोहिणीः पय- श्चिरुं निदध्यौ दुहतः स गोदुहः ॥”)
तडित् । कटुम्भरा । (यथास्याः पर्य्यायः । “कट्वी तु कटुका तिक्ता कृष्णभेदा कटुम्भरा । अशोका मन्द्यशकला चक्राङ्गी शकुलादनी ॥” इति भावप्रकाशश्य पूर्ब्बखण्डे प्रथमे भागे ॥)
सोमवल्कः । (यथास्याः पर्य्यायो रत्नमालायाम् । “कट्फलः सोमवल्काख्यः सोमवृक्षश्च रोहिणी ॥” महाश्वेता । तत्पर्य्यायो यथा, —
“कटभी किनिही श्वेता महाश्वेता च रोहिणी ॥” इति वैद्यकरत्नमालायाम् ॥)
लोहिता । इति मेदिनी । णे, ३७ ॥ जिनानां विद्यादेवीविशेषः । इति हेमचन्द्रः ॥ काश्मरी । हरीतकी । मञ्जिष्ठा । इति राजनिर्घण्टः ॥ कपिलवर्णा वर्त्तुलाकारा विरेचने प्रशस्ता हरी- तकी । इति राजवल्लभः ॥ * ॥
बलदेवमाता ॥ सा वसुदेवभार्य्या कश्यपपत्नीसुरभ्यंशजाता । यथा, —
“देवकी रोहिणी चेमे वसुदेवस्य धीमतः । रोहिणी सुरभिर्द्देवी अदितिर्देवकी ह्यभूत् ॥” इति महाभारते हरिवंशः ॥ * ॥
सुरभिकन्या । यथा, — श्रीमार्कण्डेय उवाच । “दक्षस्य तनया याभूत् सुरभिर्न्नाम नामतः । गवां माता महाभागागा सर्व्वलोकोपकारिणी ॥ तस्यान्तु तनया जज्ञे कश्यपात्तु प्रजापतेः । नाम्ना सा रोहिणी शुभ्रा सर्व्वकामदुघा नृणाम् ॥ तस्यां यज्ञे शूरसेनाद्बसोरिति तपोज्जलात् । कामधेनुरिति ख्याता सर्व्वलक्षणसंयुता ॥” इति कालिकापुराणे शेषाध्यायः ॥ * ॥
नववर्षीया कन्या । यथा, —
“अष्टवर्षा भवेद्गौरी नववर्षा तु रोहिणी । दशमे कन्यका प्रोक्ता अत ऊर्द्ध्वं रजस्वला ॥” इत्युद्वाहतत्त्वम् ॥ * ॥
(पञ्चवर्षा कुमारी । यथा, देवीभागवते । ३ । २६ । ४२ । “रोहिणी पञ्चवर्षा च षड्वर्षा कालिका स्मृता ॥” रोगनाशायैवास्याः पूजा कर्त्तव्या । यथा, तत्रैव । ३ । २६ । ४८ । “रोहिणीं रोगनाशाय पूजयेद्बिधिवन्नरः ॥” अस्याः पूजामन्त्रो यथा, तत्रैव । ३ । २६ । ५६ । “रोहयन्ती च बीजानि प्राग्जन्मसञ्चितानि वै । या देवी सर्व्वभूतानां रोहिणों पूजयाम्यहम् ॥” हिरण्यकशिपुकन्या । यथा, महाभारते । ३ । २२० । १८ । “कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता ॥” * ॥
रोहिणि + पक्षे ङीष् ।)
अश्विन्यादिसप्त- विंशतिनक्षत्रान्तर्गतचतुर्थनक्षत्रम् । तत्पर्य्यायः । रोहिणिः २ । इति शब्दरत्नावली ॥ ब्राह्मी ३ । इति हेमचन्द्रः ॥ (यथा, महाभारते । १ । १४६ । ३३ । “अष्टमेऽहनि रीहिण्यां प्रयाताः फालगुणस्य ते । वारणावतमासाद्य ददृशुर्नागरं जनम् ॥”)
तत्त शकुलाकृति पञ्चतारात्मकम् । तस्याधि- ष्ठात्री देवता ब्रह्मा । गगनमध्ये उदिते सति सिंहलग्नस्य अष्टत्रिंशत्पलाधिकदण्डत्रितयं गतं भवति । यथा, —
“कम्बुकण्ठि ! शकुलाकृतौ नभो- मध्यमागतवति प्रजापतौ । पञ्चभे गजकुपक्षलिप्तिका निःसृताः सुमुखि ! सिंहलग्नतः ॥” इति कालिदासकृतरात्रिलग्ननिरूपणम् ॥ * ॥
तत्र जातफलं यथा, —
“स्याद्धर्म्मकार्य्ये कुशलः कुलीनः सुचारुदेहो विलसत्कलेवरः । स्मराग्निनाकुलिताखिलाशयो यो रोहिणीजः स धनी स मानी ॥” इति कोष्ठीप्रदीपः ॥ * ॥
गलरोगविशेषः । यथा । रोहिणीनामकगल- रोगाणां नामानि संख्याञ्चाह । “रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च । अधिजिह्वश्च वलयोऽलासनामैरवृन्दकः ॥ ततो वृन्दः शतघ्नी च गिलायुः कण्ठविद्रधिः । गलौघः प्रस्वरघ्नश्च मांसतालस्तथैव च । विदाही कण्ठदेशे तु रोगा अष्टादश स्भृताः ॥” तत्र पञ्चानामपि रोहिनीनां सामान्यसंप्राप्ति- माह । “गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च तथैव शोणितम् । गलोपसंरोधकरैस्तथाङ्कुरै- र्निहन्त्यसून् व्याधिरियं हि रोहिणी ॥” अनिलः मूर्च्छितः प्रवृद्धः कफपित्तौ च मूर्च्छितौ पित्तं वा मूर्च्छितं कफो वा मूर्च्छितः । ननु त्रयोऽपि मूर्च्छिताः पृथग्दोषजाया अविवक्ष- माणत्वात् ॥ तस्या वातजाया लक्षणमाह । “जिह्वासमन्ताद्भृशवेदनास्तु मांसाङ्कुराः कण्ठविरोधनाः स्युः । सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्रवगाढजुष्टा ॥” जिह्वासमन्तात् जिह्वायाः सर्व्वतः । वातात्मको- पद्रवगाढजुष्टा स्तम्भादिभिरतिशयेन युक्ता ॥” पित्तजामाह । “क्षिप्रोद्गमा क्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजाता ॥” श्लेष्मजामाह । “स्रोतोनिरोधिन्यपि मन्दपाका गुर्व्वी स्थिरा सा कफसम्भवा तु ॥” स्रोतोऽत्र कण्ठस्रोतः ॥ * ॥
सन्निपातजामाह । “गम्भीरपाकिन्यनिवार्य्यवीर्य्या त्रिदोषलिङ्गा त्रिभवा भवेत् सा ॥” रक्तजामाह । “स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु ॥” रक्तजेतरासंहारकत्वावधिमाह । “सद्यस्त्रिदोषजा हन्ति त्र्यहात् कफसमुद्भवा । पञ्चाहात् पित्तसम्भूता सप्ताहात् पवनोत्थिता ॥” कण्ठशालूकमाह । “कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः । खरः स्थिरः शस्त्रनिपातसाध्य- स्तं कण्ठशालूकमिति ब्रुवन्ति ॥” कण्टकशूकभूतः कण्टकवच्छूकवद्वेदनाजनकः ॥ अधिजिह्वामाह । “जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादसृजैव मिश्रात् । ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्ज्जयेदागतपाकमेनम् ॥” असृजा मिश्रादेवेत्यन्वयः ॥ * ॥
बलयमाह । “वलाश एवायतमुन्नतञ्च शोथं करोत्यन्नगतिं निवार्य्य । तं सर्व्वथैवाप्रतिवार्य्यवीर्य्यं विवर्ज्जनीयं वलयं वदन्ति ॥” अलासमाह । “गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् । मर्म्मच्छिदं दुस्तरमेनमाहु- रलाससंज्ञं भिषजो विकारम् ॥” मर्म्मच्छिदं हृदयमर्म्मणि छेदेनेव वेदनाजनकम् ॥ एकवृन्दमाह । “वृत्तोन्नतोऽन्तः श्वयथुः सदाहः सकण्डुरोऽपाक्यमृदुर्गुरुश्च । नाम्नैकवृन्दः परिकीर्त्त्यतेऽसौ व्याधिर्ब्बलाशः क्षतजप्रसूतः ॥” अन्तः गलमध्ये । अपाकी ईषत् पाकी । अमृदुः ईषन्मृदुः ॥ * ॥
वृन्दमाह । “समुन्नतं वृत्तममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति । तच्चापि पित्तक्षतजप्रकोपा- द्विद्यात् सतोदं पवनात्मकन्तु ॥” * ॥
शतघ्नीमाह । “वर्त्तिर्घना कण्ठनिरोधिनी तु चितातिमात्रं पिशितप्ररोहैः । अनेकरुक् प्राणहरी त्रिदोषा ज्ञेया शतघ्नीसदृशी शतघ्नी ॥” घना कठिना । अनेकरुक् वातपित्तकफज- तोददाहकण्ड्वादियुक्ता । शतघ्नीसदृशी लोह- कण्टकसंछन्ना शतघ्नी महती शिला । तत्तुल्या यतः प्राणहरी ॥ * ॥
गिलायुमाह । “ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्त्तिः । संलक्ष्यते शक्तमिवासितञ्च स शस्त्रसाध्यस्तु गिलायुसंज्ञः ॥” गलविद्रधिमाह । “सर्व्वं गलं व्याप्य समुत्थितो यः शोफो रुजः सन्ति च यत्र सर्व्वाः । स सर्व्वदोषैर्गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्व्वजस्य ॥” * ॥
गलौघमाह । “शोथो महान् यस्तु गलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता । कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्त्यतेऽसौ ॥” वायुगतेर्निहन्ता उदानवायुगतिरोधकः ॥ * ॥
स्वरघ्नमाह । “यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः । कफोपदुष्टेष्वनिलायनेषु ज्ञेयः स रोगह् श्वसनात् स्वरघ्नः ॥” ताम्यमानः तमः पश्यन् । शुष्कविमुक्तकण्ठः शुष्को विमुक्तोऽस्वाधीनः कण्ठो यस्य सः । अस्वाधीनता भुक्तं गिलितुं अशक्यत्वात् । अनिलायनेषु वायुवर्त्मसु । श्वसनाद्वातात् ॥ * ॥
मांसतानमाह । “प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण । स मांसतानः कथितोऽवलम्बी प्राणप्रणुत् सर्व्वकृतो विकारः ॥” प्रतानवान् विस्तारवान् । सुकष्टः अतिशयितं कष्टं यत्र सः ॥ * ॥
विदारीमाह । “सदाहतोदं श्वयथुं सुताम्र- मन्तर्गले पूतिविशीर्णमांसम् । पित्तेन विद्याद्बदने विदारीं पार्श्वे विशेषात् स तु येन शेते ॥” शार्श्वे विशेषात् स तु येन शेते स पुरुषो येन पार्श्वेन विशेषाद्बाहुल्येन शेते तस्मिन् पार्श्वे सा विदारी भवति इत्यर्थः ॥ * ॥
अथ गलरोगाणां चिकित्सा । “रोहिणीनान्तु साध्यानां हितं शोणितमोक्ष- णम् । वमनं धूमपानञ्च गण्डूषो नस्यकर्म्म च ॥ वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत् । सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः ॥ विस्राव्य पित्तसंभूतां सिताक्षौद्रप्रियङ्गुभिः । घर्षयेत् कवलो द्राक्षापरूषैः कथितो हितः ॥ आगारधूमकटुकैः कफजां प्रतिसारयेत् । आगारधूमः झूल इति लोके । कटुकानि शुण्ठीपिप्पलीमरिचानि । “श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् । नस्यकर्म्मणि दातव्यं कवलञ्च कफोच्छ्रये ॥” श्वेता अपराजिता । “पित्तवत् साधयेद्बैद्यो रोहिणीं रक्तसम्भवाम् । विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ॥ एककालं यवान्नञ्च भुञ्जीत स्निग्धमल्पशः । उपजिह्वकवच्चापि साधयेदधिजिह्वकम् ॥ एकवृन्दन्तु विस्राव्य विधिं शोधनमाचरेत् । एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत् ॥ गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत् । अमर्म्मस्थं सुसंपक्वं छेदयेद्गलविद्रधिम् ॥” इति भावप्रकाशः ॥ (स्थूले, त्रि । यथा, महाभारते । २ । ६१ । ३३ । “नैव ह्नस्वा न महती न कृशा नापि रोहिणी । नीलकुञ्चितकेशी च तया दीव्याम्यहं त्वया ॥”)



Correction: