वाचस्पत्यम्
रोहित || न० रुह इतच् । १ रुधिरे २ कुङ्कुमे ३ ऋजौ इन्द्रचापे मेदि० । ४ रोहितकवृक्षे पु० स्वनामख्याते ५ मत्स्यभेदे पुंस्त्री० स्त्रियां ङीष् मेदि० । “रक्तोदरो रक्तमुखो रक्ताक्षो रक्तपक्षतिः । कृशपक्षो झसश्रेष्ठो रोहितः कथितो बुधैः । रोहितः सर्वमत्स्यानां वरो वृष्योऽर्द्दि- तार्त्तिजित् । कषायानुरसः स्वादुर्वातघ्नो नातिपित्त० कृत् । ऊर्द्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम्” भावप्र० । ६ रक्तवर्णे पु० ७ तद्वति त्रि० अमरः । स्त्रियां ङीष् तस्य नत्वे णत्वम् । ८ अग्निवाहने मृगभेदे निध- ण्टुः । स्वार्थे क । रोहितक उक्तार्थे ९ वृक्षभेदे अमरः ।
वाचस्पत्यम्
रोहित || पु० रुह—इति । १ सूर्य्ये मेदि० २ वर्णभेदे च ३ मत्स्य भेदे पु० उज्ज्वल० । ४ लताभेदे ५ मृग्याञ्च स्त्री ङीप् मेदि० ।
शब्दकल्पद्रुमः
रोहितं || क्ली (रुह + “रुहे रश्च लो वा ।” उणा० ३ । ९४ । इति इतन् ।)
कुङ्कुमम् । रक्तम् । ऋजुशक्रशरासनम् । इति मेदिनी । ते, १४५ ॥ (यथा, मनुः । १ । ३८ । “विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उल्कानिर्घातकेतुंश्च ज्योतींष्युच्चावचानि च ॥”)
शब्दकल्पद्रुमः
रोहितः || पुं, (रोहतीति । रुह + “रुहे रश्च लो वा ।” उणा० ३ । ९४ । इति इतन् ।)
मीन- विशेषः । (यथाह कश्चित् । “ईलीशो जितपियूषो वाचा वाचामगोचरः । रोहितो नो हितः प्रोक्तो मद्गुरो मद्गुरोः प्रियः ॥”)
रोहितमत्स्यस्य लक्षणं गुणाश्च यथा, —
“कृष्णः शल्की श्वेतकुक्षिस्तु मत्स्यो यः श्रेष्ठोऽसौ लोहितो वृत्तवक्त्रः । कोष्णं बल्यं रोहितस्यापि मांसं वातं हन्ति स्निग्धमृध्नाति वीर्य्यम् ॥” इति राजनिर्घण्टः ॥ अपि च । “रक्तोदरो रक्तमुखो रक्ताक्षो रक्तपक्षतिः । कृशपक्षो झसश्रेष्ठो रोहितः कथितो बुधैः ॥ रोहितः सर्व्वमत्स्यानां वरो वृष्योऽर्द्दितार्त्तिजित् । कषायानुरसः स्वादुर्व्वातघ्नो नातिपित्तकृत् ॥ ऊर्द्ध्वजत्रुगतान् रोगान् हन्याद्रोहितमुण्डकम् ॥” इति भावप्रकाशः ॥ (तथाच । “वातघ्नो नहि पित्तकृद्बलकरः स्याद्रोहितः सर्व्वदा ॥” इति हारीते प्रथमस्थाने एकादशेऽध्याये ॥ “शैवलाहारभोजित्वात् स्वप्नस्य च विवर्ज्जनात् । रोहितो दीपनीयश्च लघुपाको महाबलः ॥” इति चरके सूत्रस्थाने सप्तविंशेऽध्याये ॥ “कषायानुरसस्तेषां शष्पशैवालभोजनः । रोहितो मारुतहरो नात्यर्थं पित्तकोपणः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ स्वनामख्यातो हरिश्चन्द्रश्च नृपतेः पुत्त्रः । यथा देवीभागवते । ७ । १५ । १५ ॥ “राजा पुत्त्रमुखं दृष्ट्वा सुखमाप महत्तरम् । नामास्य रोहितश्चेति चकार विधिपूर्ब्बकम् ॥” अस्य विवरणन्तु तश्रैव द्रष्टव्यम् ॥)
मृगभेदः । रोहितकवृक्षः । इति मेदिनी । ते, १४६ ॥ (रोहीतोऽपि पाठः । रोहीतकशब्ददर्शनात् ॥ यथा, सुश्रुते । ६ । १७ । “पलाशरोहीतमधूकजा रसाः क्षौद्रेण युक्ता मदिराग्रमिश्रिताः ॥” अग्निघोटकः । इति निघण्टुः । १ । १५ ॥ “रोहन्ति आरोहन्ति रथं वहन्त्यादिवमिति रोहितः ।” इति तत्र देवराजयज्वा ॥ यथा, ऋग्वेदे । १ । ९४ । १० । “यदयुक्था अरुषा रोहिता रथे ॥” “रोहिता लोहितवर्णौ रोहित इत्यग्नेरश्वस्याख्या रोहितोऽग्नेरितिदर्शनात् रोहितेनत्वाग्निर्द्देवतां गमयत्वितिमन्त्रवर्णाच्च ।” इति तद्भाष्ये सायणः ॥)
रक्तवर्णः । रक्तवर्णविशिष्टे, त्रि । इत्यमरः ॥ (यथा, वाजसनेयसंहितायाम् । १६ । १९ । “नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमः ॥”)