शब्दकल्पद्रुमः
रोहितकः || पुं, (रोहित एव । स्वार्थे कन् ।)
वृक्षविशेषः । रोहडा इति भाषा । तत्पर्य्यायः । रोही २ प्लीहशत्रुः ३ दाडिमपुष्पकः ४ । इत्यमरः ॥ रोहीतकः ५ रोहितः ६ रोहिणः ७ कुशाल्मलिः ८ दाडिमपुष्पः ९ सदाप्रसूनः १० कूटशाल्मलिः ११ विरोचनः १२ शाल्म- लिकः १३ । अस्य गुणाः । कटुत्वम् । स्निग्ध- त्वम् । कषायत्वम् । सुशीतलत्वम् । कृमिदोष- व्रणप्लीहरक्तनेत्रामयापहत्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “रोहितो लोहितो रोही लोही दाडिम- पुष्पकः । रोहीतकः प्लीहघाती रुच्यो रक्तप्रसादनः ॥” इति भावप्रकाशः ॥ अन्यच्च । “रोहीतको यकृत्प्लीहगुल्मोदरहरः स्मृतः ॥” इति राजवल्लभः ॥ (गणविशेषः । यथा, महाभारते । ३ । २५३ । १९ । “भद्रान् रोहितकांश्चैव आग्नेयान्मालवानपि । गणान् सर्व्वान् विनिर्जित्य नीतिकृत् प्रहसन्निव । शशकान् यवनांश्चैव विजिग्ये सूतनन्दनः ॥”)