शब्दकल्पद्रुमः
रोहिता || स्त्री (रोहित + टाप् । “वर्णादनु- दात्तात्तोपधातो नः ।” ४ । १ । ३९ । इति पाक्षिको ङीष् तकारस्य नकारादेशश्च न ।) रागादिना रक्तवर्णा । यथा, — “रोहिणी रोहिता रक्ता लोहिनी लोहिता च सा ।” इति जटाधरः ॥