संस्कृत-शब्दकोशः

रौहिष् लक

ल

वाचस्पत्यम्

ल ||‍ पु० ला—क । १ इन्द्रे मेदि० तन्त्रोक्ते भूमिदैवताके २ मन्त्र- भेदे न० २ एकलघुके वर्णे । लडादिदशसु लकारादि तिड्प्रत्ययेषु “लः कर्मणि च भावे चाकर्मकेभ्यः पा० ।


शब्दकल्पद्रुमः

लं || क्ली (लीयतेऽत्रेति । ली + अभिधानान्निरुप- पदेऽपि डः ।)
पृथ्वीबीजम् । इति तन्त्रम् ॥


शब्दकल्पद्रुमः

लः || पुं, (लातीति । ला + अच् ।)
इन्द्रः । इति भेदिनी । ले, १ ॥


शब्दकल्पद्रुमः

ल || लकारः । स तु यवर्गस्य तृतीयो वर्णो व्यञ्जन- स्याष्टाविंशवर्णश्च । अस्योच्चारणस्थानं दन्तः । इति व्याकरणम् ॥ (तथाच सिद्धान्तकौमुद्याम् । “ऌतुलसानां दन्ताः ॥”)
तस्य स्वरूपं यथा, —
“लकारं चञ्चलापाङ्गि ! कुण्डलीत्रयसंयुतम् । पीतविद्युल्लताकारं सर्व्वरत्नप्रदायकम् ॥ पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । त्रिशक्तिसहितं वर्णं त्रिबिन्दुसहितं सदा । आत्मादितत्त्वसहितं हृदि भावय पार्व्वति ! ॥” इति कामधेनुतन्त्रम् ॥ * ॥
(वङ्गीयवर्णमालायाम् ।)
अस्य लेखनप्रकारो यथा, —
“कुण्डलीत्रयसंयुक्ता वामाद्दक्षगता त्वधः । पुनरूर्द्ध्वगता रेखा तासु नारायणः शिवः । ब्रह्मशक्तिश्च सन्तिष्ठेद्ध्यानमस्य प्रचक्षते ॥” ध्यानं यथा, —
“चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् । सर्व्वदा वरदां भीमां सर्व्वालङ्कारभूषिताम् ॥ योगीन्द्रसेवितां नित्यां योगिनीं योगरूपिणीम् । चतुर्वर्गप्रदां देवीं नागहारोपशोभिताम् ॥ एवं ध्यात्वा लकारन्तु तन्मन्त्रं दशधा जपेत् ॥” इति वर्णोद्धारतन्त्रम् ॥ तस्य नामानि यथा, —
“लश्चन्द्रः पूतना पृथ्वी माधवः शक्रवाचकः । बलानुजः पिनाकीशो व्यापको मांससंज्ञकः ॥ खड्गी नादोऽमृतं देवी लवणं वारुणीपतिः । शिखा वाणी क्रिया माता भामिनी कामिनी प्रिया ॥ ज्वालिनी वेगिनी नादः प्रद्युम्नः शोषणो हरिः । विश्वात्ममन्त्रौ बली चेतो मेरुर्गिरिः कला रसः ॥” इति नानातन्त्रशास्त्रम् ॥ (अनुबन्धविशेषः । यथा, कविकल्पद्रुमे । “दिवाद्यो य्लादादिकः ।” एतेन अद् लौ भक्षणे लुग्द्भ्योऽपः । अत्ति इति ॥ छन्दः- शास्त्रोक्तो लघुसंज्ञको गणविशेषः । इति छन्दोमञ्जरी ॥)



Correction: