संस्कृत-शब्दकोशः

लकारो लक्तक

लकुच

वाचस्पत्यम्

लकुच ||‍ पु० लक—उचन् । (माँदार) वृक्षभेदे अमरः । “लकुचः क्षुद्रपनलो लिकुचो डहुरित्यपि । आमं ल- कुचमुष्णञ्च गुरु विष्टम्भकृत्तथा । मधुरञ्च तथाम्लञ्च दोष- त्रितयरक्तकृत् । शुक्राग्निनाशनञ्चापि नेत्रयोरहितं स्मृतम् । सुपछं तत्तु मधुरमम्लं चानिलपित्तकृत् । कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत्” भावप्र० । “लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम् । श्लेष्म- कारि समीरघ्नमुष्णं शुक्राग्निनाशनम्” वैद्यक० ।


शब्दकल्पद्रुमः

लकुचः || पुं, (लक्यते इति । लक स्वादे + बाहु- लकादुचः ।)
वृक्षविशेषः । डेहुया इति मादार इति च भाषा । तत्पर्य्यायः । लिकुचः २ शालः ३ कषायी ४ दृढवल्कलः ५ डहुः ६ कार्श्यः ७ शूरः ८ स्थूलस्कन्धः ९ । अस्य गुणाः । तिक्तरसत्वम् । कषायत्वम् । उष्णत्वम् । लघु- त्वम् । कण्ठदोषहरत्वम् । दाहित्वम् । मल- संग्रहदायकत्वञ्च । इति राजनिर्घण्टः ॥ * ॥
अपि च । “लकुचः क्षुद्रपनसो लिकुचो डहुरित्यपि । आमं लकुचमुष्णञ्च गुरु विष्टम्भकृत्तथा ॥ मधुरञ्च तथाम्लञ्च दोषत्रितयरक्तकृत् । शुक्राग्निनाशनञ्चापि नेत्रयोरहितं स्मृतम् ॥ सुपक्वं तत्तु मधुरमम्लं चानिलपित्तकृत् । कफवह्निकरं रुच्यं वृष्यं विष्टम्भकञ्च तत् ॥” इति भावप्रकाशः ॥ * ॥
अन्यच्च । “लकुचं गुरु विष्टम्भि स्वाद्वम्लं रक्तपित्तकम् । श्लेष्मकारि समीरघ्नमुष्णं शुक्राग्निनाशनम् ॥” इति वैद्यकम् ॥



Correction: