संस्कृत-शब्दकोशः

लकुच लक्तकर्मन्

लक्तक

वाचस्पत्यम्

लक्तक ||‍ पु० लक—क्त नि० संज्ञायां कन् । १ अलक्तके (आलता) शब्दर० । २ जीर्णवस्त्रखण्डे (नेकडा) अमरः ।


शब्दकल्पद्रुमः

लक्तकः || पुं, (रक्तेन रक्तवर्णेन कायतीति । कै + कः । रस्य लत्वम् ।)
अलक्तकः । इति शब्द- रत्नावली ॥ (यथा, गो० रामायणे । २ । ६० । १६ । “प्रकृत्या लक्तकरसप्रख्यौ तद्रसवर्ज्जितौ । तथैव रेजतुस्तस्याश्चरणौ पद्मवर्चसौ ॥”)
जीर्णवस्त्रखण्डम् । नेकडा इति भाषा । तत्- पर्य्यायः । कर्पटः २ । इत्यमरः ॥ नक्तकः ३ । इति भरतः ॥ द्वे मलिनत्वादिदुष्टजीर्णवस्त्रखण्डे नेकडा इति ख्याते । लक्तकाद्यष्टकं वस्त्रमात्रे इति केचित् ॥ पटोऽस्त्री कर्पटः शाटः सिचय- प्रोतलक्तकाः । इति रभसः ॥ लक्यते हीनै- रास्वाद्यते अनुभूयते लक्तः रक लक क स्वाद आपने चुर्भ्यो ञिर्व्वेति विभाषितत्वात् न ञिः कर्म्मणि क्तः ततः स्वार्थे कः लक्तकोऽन्तः स्थादिः । अज्यते स्म अक्तं व्यक्तं अन्जोः क्तः न अक्तं कं मुखं यस्मादिति त्रिपदबहुव्रीहौ मनीषादित्वात् अक्तस्य पूर्व्वलोपे नक्तकस्तवर्गपञ्चमादिरपि । इति तट्टीकायां भरतः ॥



Correction: