संस्कृत-शब्दकोशः

लक्तिका लक्षक

लक्ष

वाचस्पत्यम्

लक्ष ||‍ दर्शने अङ्कने च चु० उभ० सक० सेट् । लक्षयति ते अललक्षत् त ।


वाचस्पत्यम्

लक्ष ||‍ न० लक्ष—अच् । १ पदे २ चिह्ने ३ व्याजे ४ शरव्ये च । ५ दशायुतसंख्यायां स्त्री० न० मेदि० ।


शब्दकल्पद्रुमः

लक्ष || क ञ दर्शने । अङ्के । इति कविकल्पद्रुमः ॥ (चुरा०-उभ०-सक०-सेट् ।)
क ञ, लक्षयति लक्षयते घटं लोकः । पश्यति चिह्नयुक्तं करोती- त्यर्थो वा । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लक्षं || क्ली (लक्षयतीति । लक्ष + अच् ।)
व्याजः । शरव्यम् । इति मेदिनी । षे, २३ ॥ (यथा, मनुः । ७ । ५४ । “मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्गतान् । सचिवान् सप्त चाष्टौ वा प्रकुर्व्वीत परीक्षि- तान् ॥”)


शब्दकल्पद्रुमः

लक्षं || क्ली स्त्री, (लक्षयतीति । लक्ष + अच् ।)
दशायुतसंख्या । इति मेदिनी । षे, २३ ॥ लाक इति भाषा । (यथा, कथासरित्सागरे । ४३ । १०९ । “तस्यैकादशभिर्मित्रैः सहायातैर्युतस्य हि । लक्षमभ्यधिकं देव वर्त्तते वरवाजिनाम् ॥”)



Correction: