संस्कृत-शब्दकोशः

लक्षा लक्षितलक्षणा

लक्षित

वाचस्पत्यम्

लक्षित ||‍ त्रि० लक्ष—कर्मण क्त । १ लक्षणया बोधितेऽर्थे, २ ज्ञाते, ३ अनुमिते च कर्त्तरि क्त । ४ लक्षणाश्रये लक्षक- शब्दे च ।


शब्दकल्पद्रुमः

लक्षितः || त्रि (लक्ष् + क्तः ।)
आलोचितः । दृष्टः । (यथा, रघुः । ७ । ४४ । “यैः सादिता लक्षितपूर्ब्बकेतून् तानेव सामर्षतया निजघ्नुः ॥”)
अङ्कितः । इति लक्षधातोः कर्म्मणि क्तप्रत्ययेन निष्पन्नम् ॥ लक्षणाश्रयश्च ॥



Correction: