वाचस्पत्यम्
लक्षितलक्षणा || स्त्री लक्षणाभेदे यथा द्विरेफपदेन बहु- ब्रीहिलक्षणयोपस्थापिताद्रेफद्वययुक्तम्रमरपदादभिधयैव भृङ्गोपस्थितिः । अत्र न रूढिरस्ति प्रकृते तु रूढिप्रयो- जनाभावान्नेयार्थत्वं इयमेव लक्षितलक्षणेति वाच्यम्” । यत्र लक्षिताच्छब्दादर्थाभिधानं तत्रैव लक्षितलक्षणायाः परिभाषितत्वात्” सा० द० टी० ।
शब्दकल्पद्रुमः
लक्षितलक्षणा || स्त्री लक्षिते लक्षणा । यथा द्बिरेफपदेन बहुव्रीहिलक्षणयोपस्थापिताद्रेफ- द्बययुक्तभ्रमरपदादभिधयैव भृङ्गोपस्थितिः । अत्र रूढिरस्ति । प्रकृते तु रूढिप्रयोजनाभावा- न्नेयार्थत्वं इयमेव लक्षितलक्षणेत्युच्यते । न च लक्षणाद्वयाभावात् कथमियं लक्षितलक्षणेति वाच्यम् । यत्र लक्षिताच्छब्दादर्थाभिधानं तत्रैव लक्षितलक्षणायाः परिभाषितत्वात् । इति साहित्यदर्पणटीकाकृत् श्रीरामचरणतर्क- वागीशः ॥