वाचस्पत्यम्
लक्ष्मीनारायण || पु० शालग्रामभेदे तस्य लक्षणं यथा “एक- द्वारे चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं लक्ष्मीनारायणाभिधम्” व्रह्मवै० प्र० ।
शब्दकल्पद्रुमः
लक्ष्मीनारायणः || पुं, (लक्ष्म्यान्वितो नारायणः ।)
शालग्रामविशेषः । तस्य लक्षणं यथा, —
“एकद्वारे चतुश्चक्रं वनमालाविभूषितम् । नवीननीरदाकारं लक्ष्मीनारायणाभिधम् ॥” इति ब्रह्मवैवर्त्तपुराणम् ॥